SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ HIKIIIIIIIIIIIIIIIIIIIIIIIIIIIIITTIक म अथ पञ्चमः सर्गः (शिखरिणी छन्दः) परिच्छेदोऽतीतो जगति महिमा यस्य विबुधैः यदीया तत्त्वोक्तिर्नयपरिचितानल्पसरणिः । त्रिलोकीं यज्ज्ञानं कलयति करस्थामलकवत् . स वोडो लोकानामवतु सततं कर्मवियुतः ॥ १ ॥ गुणानामावासं सुमतिसहितं नेमिविजयं जनानां सद्भाग्यादथ च विहरन्तं पुरि पुरि । समानेतुं श्राद्धाः सुरपुरसदृक्षे मधुपुरे कृतायासाभ्यासाः फलमुपगताः पुण्यदिवसः ॥ २ ॥ पुरे तस्मिँस्तस्याऽतुलगुणनिधेः स्वागतिविधि विधातार: श्राद्धा अहमहमिकातः समुदिताः । अकार्युर्यां शोभां निजनिजकहट्टेषु युगपत् तया भक्ति व्यक्ति: स्ववदपरस्मिन्नपि जने ॥ ३ ॥ निजग्रामे मानो भवति महतां नैव निजकैः प्रवादोऽयं व्याप्त्या वियुत इह जातो मुनिवरे । उपाधिर्मोहादि: कलयति कृती तत्र सुधिया समुत्खातोपाधौ समुचिततरोऽयं किमु नहि? ॥ ४ ॥ स पूर्वं सद्गत्या विधिमनुसरन् शास्त्रविदितं प्रभोर्बिम्बं साक्षाद् विहरत उपात्तं द्युतिचितम् । महावीरस्योक्तं प्रणमितुमगाच्चैत्यभवनं जिनं नत्वा सडैर्चसतिमविशत् प्राप्य विधितः ॥ ५ ॥ निषण्णान् श्राद्धौघान् जिनवचनशुश्रूषणपरान् समीहापोहाक्तान् श्रुतमननसआतधिषणान् । विदित्वाऽनुक्तानथ समुचिते विष्टपवरे निषिद्धारव्यत्तत्वं मुनिगणमणिमिविजयः ॥ ६ ॥ शासनसम्राड्-विशेषः ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy