SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ अस्माभिः संस्कृतभाषायाः कृताया उपेक्षायाः फलमेतदेव यदद्य देशे आङ्ग्लभाषा सर्वत्र मान्या बभूव, संस्कृतभाषा च गौणीभूता । एवं विद्यालयेष्वपि आङ्ग्लभाषाऽनिवार्यरूपेण पाठ्यते तथा संस्कृतभाषा वैकल्पिकरूपेण पाठ्यते । अहो ! आर्यदेशे एव संस्कृतभाषाया ईदृश्युपेक्षा ? बन्धो ! एवं लिखित्वाऽऽङ्ग्लभाषायास्तिरस्कारं नाऽहं करोमि, न च तत्पठनस्य विरोधमपि विदधामि । किन्त्वस्माभिः संस्कारपोषिकां संस्कृतभाषामवगणय्य याऽऽङ्ग्लभाषाया महत्ता प्रस्थापिता सा नोचिता, अत एवैतल्लिखितम् । अन्ते, त्वमपि पाश्चात्यशिक्षणेन जायमानां हानि विज्ञाय यथाशक्ति संस्कृतं पठ, अन्याश्च प्रेरय, संस्कृतं पठतां जनानां साहाय्यं कुरु, तथा संस्कृतभाषाया उद्धारार्थं प्रयतस्वेत्यपेक्षेऽहम् । лллллллл आः किमर्थमिदं चेतः सतामम्भोधिदुर्धरम् । इति क्रुधेव दुधाः परदुःखैरपूरयत् ।। Khan ९४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy