________________
स्मरणम्
मुनिधर्मकीर्तिविजयः
पूज्यपादगुरुवर्यैः सह वयं सर्वेऽपि वर्षत्रयात् पूर्वं गूर्जरराज्यस्थे 'कच्छ'प्रदेशे दर विहरामः स्म । 'मांडवी-सुथरी-लाला-जखौ-नलिया' इत्यादीनां विभिन्नक्षेत्राणां तीर्थरूपाणि नयनरम्याणि कलाकृतिमयानि च जिनमन्दिराणि दृष्टानि । एवं तत्रस्थानां पुरातनकालीनानां चित्ताह्लादकारिणीनां प्रशान्तवदनानां च जिनप्रतिमानां दर्शनं विधाय प्रफुल्लितमानसा वयं विहरन्तः 'तेरा' ग्रामे आगतवन्तः ।
सायङ्काले भिक्षार्थमहं गतवान् । तत्र न कानिचिदपि श्राद्धानां गृहाण्यासन्, तत आहारार्थं भोजनशालायामेव गन्तव्यमासीत् । आवश्यकमाहारादिकं गृहीत्वोपाश्रयं समागतोऽहम् । कारणवशाच्च पुनस्तत्राऽहं गतवान् । ततो यदा प्रतिनिवर्तमान आसं तदा वर्त्मन्येका दीर्घकाया हृष्टपुष्टा तीक्ष्णशृङ्गा रक्तवर्णा च गौर्मे सम्मुखमागच्छन्ती दृष्टा मया । मां निरीक्ष्य प्रत्यक्षमेव स्थितवती सा । पश्चात्तु यथा यथाऽग्रे गन्तुं प्रयते स्माऽहं तथा तथा साऽपि मां प्रत्यागच्छन्त्यासीत् । मां दर्श दर्शं शृङ्गमूर्वीकृत्य ताडयितुमुद्यतेव साऽऽसीत् । नाऽग्रे गन्तुं न च प्रत्यावर्तयितुमपि शक्त आसमहम् । अग्रे गन्तुं कृताः सर्वेऽपि प्रयत्ना निष्फला जाताः । एवं दशक्षणा व्यतीताः । अहं तु नितरां भीत: ! द्रस्तस्थानि पात्राणि पतिष्यन्ति, गृहीत आहारो भूमौ पतेत्, हस्तपादा अपि व्रणिता भवेयुः । अतः 'किं भवेत् ?' इति चिन्तयतो मे देहे कम्पनमारब्धं, श्वासोच्छवासस्य गतिरपि वृद्धि गता, समग्रो देहः स्वेदक्लिन्नो जातः । ।
स मार्गोऽपि निर्जन आसीत् । वर्त्मनि गमनागमनं कुर्वन्तो न केऽपि जना | दृष्टिपथमागच्छन् । अन्ते, शनैः शनैर्मार्जारपदेन पृष्ठपादेन च मया भोजनशालां | प्रत्यावर्तयितुं प्रयत्न आरब्धः । सक्रोधं रक्तनेत्रवती साऽपि तामेव दिशं प्रत्येवाऽऽगतवती।
यदा मया भोजनशाला दृष्टा तदाऽतित्वरया गत्या धावमानोऽहमन्तः प्रविश्य द्वारं | पिहितवान् । साऽप्युच्छलन्ती सक्रोधं भोजनशालायाः प्राङ्गणे प्रविश्य नेत्रकर्णमूर्वीकृत्योत्थिता। तदा तत्रत्यैर्जनैः पृष्टोऽहं सर्वं कथितवान् । अन्ते तैर्जनैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org