________________
महान् उपकारोऽस्ति, तथाऽप्येतस्या एवोपेक्षा ? एतत्त्वस्माकं पतनस्य सूचनमस्ति, इति ज्ञेयम् ।
इदानीमस्माकं संस्कृतिधर्मः कला संस्कारो जीवनरीतिश्चेत्यादीनां सर्वेषामपि प्रतिदिनं हासोऽनुभूयते । साम्प्रतं वयं बाह्यसम्पत्त्या धनाढ्याः स्मः, किन्तु संस्कारैराभ्यन्तरसम्पदा च नितरां दरिद्राः स्मः । वस्तुतस्तु धनिका न संस्कारिणोऽपि तु ये सदाचारादिगुणान्विता ते एव संस्कारिणः सन्ति । अधुना तु विपरीतं वर्तते । ये धनिकाः सत्ताधीशाः प्रतिष्ठिताश्च ते संस्कारिणः कथ्यन्तेऽस्माभिः । किन्तु | तन्नोचितमस्ति, यतो धनाढ्यता श्रीमत्ता च संस्कारिताया न प्रमाणपत्रमपि तु नीतिमत्ता सदाचारश्चैव । इदानीं देशे धनिकैः सत्ताधीशैश्च याऽराजकताऽशान्तिश्च प्रसारिता, साऽक्षम्याऽसह्या चाऽस्ति । अतो न कदाचिदपि धनिकाः संस्कारिण एव स्युः, इति भ्रम आसेव्यः । एतदपेक्षया 'वयं दरिद्रा' इत्युक्तं मया ।
बन्धो ! अस्माकं संस्कारदरिद्रतायाः कारणमेकमेवाऽस्ति- संस्कृतभाषाया उपेक्षा । भारतवर्षे विद्यमानानां सर्वेषामपि धर्माणां शास्त्राणि प्राय: संस्कृतप्राकृतभाषामयानि सन्ति । एषा भाषा तु देवभाषा मन्यते । एवं च पुरातनकालादेषा | भाषैव सर्वमान्या सर्वग्राहिणी चाऽऽसीत्, तथाऽधुनाऽप्यस्ति । पश्यतु, भारतवर्षे सर्वेषु ग्रामेषु नगरेषु, एवं विदेशेषु चाऽपि संस्कृतभाषैकरीत्यैव प्रवर्तते, न काचिदप्यन्या। गूर्जरभाषा केवलं गूर्जरराज्ये, कच्छीभाषा कच्छप्रदेशे, कन्नडभाषा कर्णाटकराज्ये किन्तु संस्कृतभाषा तु सर्वत्र प्रचलति । एतदेव प्रमाणीकरोति यत् | संस्कृतभाषैव सर्वमान्या सर्वग्राहिणी चाऽस्ति । भारतदेशे विद्यमानानां सर्वासां भाषाणामुपरि प्रायः संस्कृतभाषायाः प्रभावो दृश्यते, तत्राऽपि गूर्जरभाषाया उपरि तु विशेषतः प्रभावो दृश्यते । एवं संस्कृतभाषैवाऽऽर्यसंस्कृतेः प्राणरूपा गौरवप्रदा चाऽस्ति । दौर्भाग्यादेषैव भाषोपेक्षिताऽस्माभिः । भो ! मानवस्य जीवनविकासे केवलं वायु जलं वृक्षः पर्यावरणं चैव न कारणं, किन्तु मातृभाषा जीवनरीतिर्लोकगीतिः संस्कारिता चाऽपि कारणमस्तीति न विस्मर्तव्यम् । यदि यया भाषयाऽस्माकं जीवनविकासो भवति तस्या एव भाषाया उपेक्षा भवेत्तर्हि विकासः कथं स्यात् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org