________________
ллллллллл
संस्कृतं प्रति घृणा (Alergy) वर्तते । यस्या भाषायाः प्रभावाद् वयं संस्कृताः स्मस्तस्या एतादृश्युपेक्षा ? न केवलं सामान्यजना अपि तु सर्वकारीया अधिकारिणः शिक्षणमन्त्रिणश्चाऽपि संस्कृतभाषाया उपेक्षामाचरन्ति । अन्यभाषाया विकासनार्थं तत्राऽप्याङ्ग्लभाषायाश्चोत्थानार्थं यादृग्रीत्या यावन्तः प्रयत्नाः क्रियन्ते, तदपेक्षया संस्कृतभाषाया उत्थानस्य कृते किं कृतम् ? किं च क्रियते ? संस्कृतभाषा परकीया दुहिता स्यादिति व्यवहरन्ति सर्वेऽपि जना अधिकारिणश्च । अन्यभाषया विद्वत्तां प्राप्नुवतामध्यापकानां समाजे महती प्रतिष्ठा भवति, आर्थिकवेतनं चाऽपि तैर्विशेषतः प्राप्यते । संस्कृताध्यपकानां समाजे किं गौरवं का वा प्रतिष्ठा ? तेभ्यश्च वेतनमपि किं दीयते ?
भो ! दौर्भाग्यबलेन गतवर्षे एका दुर्घटना जाता । उत्तरप्रदेशस्य राज्यपालो बनारसनगरे वर्तमानस्य सम्पूर्णानन्दविश्वविद्यालयस्य च कुलपतिः 'टी.वी. राजेश्वरवर्य' आसीत् । तेन महोदयेन विश्वविद्यालयस्य संस्कृतसमारोहे संस्कृतस्य कियदवमाननं कृतम् ? आङ्ग्लभाषां पठन्तु, तयैवोद्धारोऽस्ति, तयैव समाजे प्रतिष्ठा सन्माननं च प्राप्यते । यदि धनेच्छा स्यात् तर्हि आङ्ग्लभाषैव पठनीया । एवं संस्कृतभाषाया अवहेलनं विधायाऽऽङ्ग्लभाषाया महत्त्व वर्णिता प्रस्थापिता च तेन महोदयेन । संस्कृतविद्यालयस्य कुलपतिरेतादृशं यथातथं प्रलपति, तथाऽपि वयं शृणुमः । न कोऽपि प्रतीकारः क्रियतेऽस्माभिः-इत्यतोऽधिका दयनीया लज्जनीया वा का स्थितिः स्यात् ! ।
संस्कृतिरक्षणस्य व्याजेनाऽऽरार्टि कुर्वन्तः, कण्ठं विस्फोट्य भाषणं दधानाः, तुमुलं च कुर्वन्तः, रामस्य कृष्णस्य महावीरस्य च व्याजेन क्लेशं कुर्वन्त आर्यजनाः संस्कृतिरक्षकाश्च कुत्र गतवन्तः ? युष्माकं शक्तिः कुत्राऽन्तर्धानं प्राप्ता ? रामस्याऽवमाननं कुर्वतः प्रति किमपि न करणीयम् ? यस्याः संस्कृतभाषायाः प्रभावेनैव वयमेतादृशाः सज्जनाः सदाचारिणश्च स्मः, शान्तिपूर्वकं प्रेमपूर्वकं च वसामः । अन्यथा पाश्चात्यजनानामिव वयमपि संस्कारशून्याः क्रूराश्च स्याम । जगत्समक्षमेव दुराचारं हिंसनं मद्यपानादिकं च कुर्वन्तः स्याम । एवमेतस्याः संस्कृतभाषाया अस्माकमुपरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org