SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ शिक्षणशैली विशेषतः सफलीभूता । वयं सर्वेऽपि सानन्दं सगौरवं च स्वकीयानां पुत्रादीनां सत्संस्काराणां विनाशकं पाश्चात्यशिक्षणं स्वीकुर्मः । भोः ! किमेतत् शिक्षणं मान्यमस्ति ? एतेन शिक्षणेन का का हानिर्भवतीति जानासि त्वम् ? - बालकस्य शिरसि पठनस्यैतादृशो भार आरोपितो येन बालकैः स्वकीया नैसर्गिकी क्रीडैव विस्मृता । कौटुम्बिकजनैर्मेलनं सम्भाषणं धर्मचर्चा चैवं देवपूजनं गुरुपूजनं चेति सर्वमपि विस्मृतम् । एतेन बालका: शारीरिकदृष्ट्याऽपि दुर्बला जातास्तथा सत्संस्कारेभ्यो दूरीभूताः । - शालायाम् 'ईशुख्रिस्तस्य प्रार्थनं नमनं चाऽवश्यंतया करणीयम् । तस्यैव चिह्नमप्यङ्गीकरणीयमस्ति । न तु स्वकीयानां श्रद्धेयभगवतां नमनं स्तुति वा कर्तुं शक्ताः केऽपि जनाः । एवं श्रद्धानुरूपं तिलकं रक्षादवरकं रक्षायन्त्रं चाऽपि धारयितुं न शक्यन्ते । एतत्सर्वं त्वन्धश्रद्धायाः सूचकमित्युक्त्वाऽस्माकं महावीर-कृष्णराम-हनुमत्-शम्भ्वादीनां देवानामवमाननं कुर्वन्ति ते शिक्षकाः । एवं रीत्या स्वेष्टदेवताभ्यः स्वधर्मश्रद्धातश्च विमुखान् कुर्वन्ति । प्रभूणां पूजनं, तेषां भक्तिकरणे धनव्ययः, तपश्चरणमिति सर्वं निरर्थकम् । पीडितजनानां सेवा, तेभ्यश्च साहाय्यं करणीयम्, तदेव सत्यं सफलं च तथा वस्तुतो धर्मोऽपि तदेवेति वदन्ति ते शिक्षकाः । एवं शिक्षणस्य व्याजेनैते पाश्चात्या अस्माकं भगवतामुपर्यश्रद्धामरुचि चोत्पादयन्ति, तथाऽऽर्यसंस्कारेभ्यो विमुखान् कुर्वन्ति । एवं सत्यप्यस्माभिराङ्ग्लभाषाया एतादृश आदरः कृतो येनाऽद्य भारतदेशस्य सर्वेष्वपि राज्येष्वा ङ्ग्लभाषायाः प्रभुत्वं वर्तते । अन्यराज्येषु त्वेतां भाषां विना सामान्यव्यवहारकरणेऽपि बाधाऽनुभूयते खलु । आङ्ग्लभाषां प्रत्यस्माकमेतादृशासक्तिवशादस्माभिरस्माकं संस्कारपोषणकाः संस्कृतभाषाया नितरामुपेक्षा कृता । अद्य कः संस्कृतं जानाति ? कस्य तां प्रत्यभिरुचिविद्यते ? को वा तत्पठनार्थं तथा तस्योत्थानस्य कृते प्रयत्नमपि करोति ? | बहवो जनास्तु तादृशाः सन्ति, येषां मनसि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy