________________
гулуллулулл
नमो नमः श्रीगुरूनेमिसूरये ।।
HAR
मुनिधर्मकीर्तिविजयः
आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । तव स्वास्थ्यमनुकूलं वर्तेत । वयं सर्वेऽपि कुशला निरामयदेहाश्च स्मः । सौराष्ट्रदेशस्य विहारयात्रां समाप्य चातुर्मास्यर्थं कर्णावतीनगरे आगतवन्तो वयम् ।
अद्य पाश्चात्यशिक्षणमुपलक्ष्य किञ्चिद् लिखामि । शिक्षणस्य विशेषत आवश्यकताऽस्ति, इति बोधोऽद्य देशस्य सर्वासामपि व्यक्तीनां चित्ते प्रवर्तते । बाल्यकालादेव बालमानसे पठनस्य तीव्रभारश्चिन्ता च विद्यते । अद्य बालकस्य बौद्धिकविकासो विशेषो दृश्यते । बाह्यदृष्ट्या पञ्चाशद्वर्षीयजनस्य बोधादपि पञ्चदशवर्षीयबालकस्य बोधो विशेषः सूक्ष्मश्च विज्ञायते । अत्र पाश्चात्यशिक्षणस्य प्रभाव एव कारणम् । अद्य प्रतिदिनं देशे समाजे च पाश्चात्यशिक्षणस्य महत्ता वृद्धि गता दरीदृश्यते । अहो ! पाश्चात्यशिक्षणं त्वस्माकं प्रतिष्ठाविषयः (status) कुलगौरवं चाऽस्तीति मन्यतेऽस्माभिः । गूर्जरभाषयाऽन्यभाषया च पठन् बालको हीनोऽस्तीति विचारधाराऽपि प्रवर्तते । तत एवाऽऽर्थिकस्थित्या मध्यमवर्गीयाः सामान्यजनाश्चाऽपि पाश्चात्यशिक्षणस्य दुराग्रहमासेवन्ते ।
बन्धो ! पाश्चात्यैर्भारतदेशे पाश्चात्यशिक्षणस्यैतादृश्या महत्तायाः स्थापनार्थं कथं बहुशो विविधाश्च प्रयत्नाः क्रियन्ते, इति किं त्वं जानासि ? भो ! अत्राऽपि तेषामाङ्ग्लजनानां दुराशयोऽस्ति । अद्यावधि तैराङ्ग्लजनैरार्यसंस्कृत्या नाशार्थं बहुशो बहुरीत्या च प्रयत्नाः कृताः, किन्तु सर्वेऽपि ते प्रयत्ना निरर्थका जाताः । विश्वस्मिन् विश्वेऽद्याऽऽर्यसंस्कृतिः सर्वमान्या विद्यते । आर्यजनैरेव तेषां पाश्चात्यानां शरणं नोररीकृतम् । एवमार्यजना एव तेषां दुष्टनीति दुराशयं च प्रत्याह्वयन्त्यपि । अतोऽन्ते तैः पाश्चात्यैरेतस्याः शिक्षणशैल्या आश्रयः कृतः । अस्माकं दुर्भाग्यं यदेषा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org