SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ नव्योक्तिसंसूत्रणसूत्रधारा-श्चिरन्तनोक्त्यादरबद्धचित्ताः । श्रीमद्यशोवाचकपुङ्गवाद्या, जयन्त्यनेकान्तकृतान्तचान्ताः ॥ १० ॥ अणुत्वसीमानमुपागतेऽपि, गुणे परस्योच्चतरत्वमुच्चैः । यैर्वर्ण्यते संसदि सज्जनानां, ते सज्जनाः कस्य न वर्णनीयाः ? ॥ ११ ॥ दोषाकरस्याऽतिजडत्वभाजो-ऽप्यनल्पपक्षक्षयलम्पटस्य । प्रस्य पूर्णोदयतोऽप्यवस्था, निजां जहत्यर्णववन्न सन्तः ॥ १२ ॥ दोषानणूनप्यचलोच्चतां ये, नयन्ति निःशेषगुणापलापात् । पापकारव्यसनादरा वै, ते दुर्जनाः सन्ति न किं कियन्तः ? ॥ १३ ॥ अनाहतस्वान्यविभेदलेश-स्तिरस्कृताशेषफलाभिलाषः । एकान्तदोषादृतचित्तवृत्ति-योगीव मान्योऽत्र खलो जनानाम् ॥ १४ ॥ परोपकारव्यसनो यथैकः, परापकारैकरतस्तथाऽन्यः । आदौ स्वन्त्वाऽऽदिममेव कुर्वन्, खलः स्वकार्ये न कथं विशिष्ट: ? ॥१५॥ दोषप्रकाशोन्मुखतो भियेव, यस्मादशिक्षोपनतं जनानाम् । समीक्ष्यकारित्वमतीव सूक्ष्मे, कार्येऽपि मान्यः स खलो हितेच्छुः ॥ १६ ॥ तत्कर्मनैपुण्यबलात् तदैक्यं, गतोऽपि यत्काव्यकलानवाप्तेः । काव्यो ह्रियाऽधोभुवने प्रविष्टः, स कालिदासो न कथं प्रशस्यः ? ॥ १७ ॥ वेदान्तशास्त्रादिरहस्यवित्त्वं, यत्काव्यमावेदयति स्वकर्तुः । स काव्यमर्मजगणैरुपास्यः, स्वकर्मसिद्ध्यै भवभूतिरेकः ॥ १८ ॥ यत्काव्यमाधुर्यरसस्य लेशं, स्वस्मिन्नदृष्ट्वैव सुधाऽऽप्तलज्जा। गता सुदूरं कलिकालसर्व-ज़ो हेमचन्द्रः स न कस्य सेव्यः ? ॥ १९ ॥ यस्याऽऽप्तमूर्तिर्यश एव साक्षात्, सा मञ्जरी सत्तिलका चकास्ति । स सुप्रसिद्धो धनपालनामा, भोजाप्तमानः स्मरणीय एव ॥ २० ॥ सूरोऽपि गोभिर्भजते प्रवृद्धो, यं यत्र गोभिजडताऽपनेया । माघः कथङ्कारमसौ न वो-अनवद्यमार्गाश्रयतत्परेण ॥ २१ ॥ यत्काव्यमर्थावगतिप्रकारैः, सन्नीतिमध्यापयतीव भाति । स भारविः किं न गुरोरनूनं, वाग्वैभवं स्वीयमुदाजहार ॥ २२ ॥ सरस्वती यत्कविताविताने, सञ्चारिणी सर्वत एव भाति । अनल्पकल्पोचितकल्पनायां, श्रीहर्ष एकः स पटुर्बभूव ॥ २३ ॥ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy