SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीशङ्खेश्वरपार्श्वनाथाय नमः ॥ श्रीविजयने म्यभ्युदयमहाकाव्यम् ॥ Jain Education International रचयिता : आचार्य श्रीविजयउदयसूरिः प्रथमः सर्गः ॥ नमोऽनन्तबोधाय विलीनाशेषकर्मणे । अबाध्यागमबीजाय मङ्गलायाऽर्हतेऽभितः ॥ १ ॥ (उपजातिश्छन्दः) प्रभासमानोऽपि विभासमानो, योऽज्ञैरनाप्योऽपि बुधैरवाप्यः । अनाथनाथोऽपि स आदिनाथो, जीयाद् विभुः सिद्धमितप्रतिष्ठः ॥ १ ॥ यद्वर्णनेऽनन्वय इत्यलङ्क्रिया, भूतार्थतैवाऽद्भुतशब्दसंस्क्रिया । शासनसम्राड्- विशेषः स्वकर्त्रसामर्थ्यप्रकाशनं गुणः, समेऽपि ते सन्तु जिना हितप्रदाः ॥ २ ॥ अनन्वयेनैव यमामनन्ति, स्तुवन्ति गायन्ति यमादिभाजः । नामाऽऽकृतिभ्यां स द्धद् विभेदं समो जिनो भिन्दतु विघ्नवल्लीम् ॥ ३ ॥ व्यक्त्या विभिन्नत्वमुपागतं यज्ज्ञानादिशक्त्या समभावमाप्तम् । तद् द्रव्यभावानुगतं समस्तं, ज्योतिर्जिनाख्यं हरतादधानि ॥ ४ ॥ पायादपायाद् भवसम्भ्रमोत्थात्, तीर्थङ्करः षोडशशान्तिनाथः । यन्नाममन्त्रस्मरणप्रभावात्, सिध्यन्ति सर्वाणि समीहितानि ॥ ५ ॥ चीरः स वोsव्याद् नियतेर्नियोगाद्, बम्भ्रम्यमाणान् भववारिराशौ । योऽशेषभावारिविधूननेन, लब्धप्रतिष्ठोऽमलसिद्धिसौधे ॥ ६ ॥ श्रीमज्जगन्नाथमुखोद्गतां यः, प्राप्याऽनवद्यां त्रिपदीं विशिष्टाम् । सूत्राण्यकार्षीदमितार्थभाञ्जि, स गौतमः पातु गणाधिनाथः ॥ ७ ॥ सा चाक् त्रिपद्या जगतीमशेषां, स्वानन्यया व्याप्नुवती निजां च । ज्ञप्तिं तथैवाऽऽदधती नयाढ्या, स्याद्वादभव्या जयताज्जिनानाम् ॥ ८॥ भीत्येव येषां गुरुराश्रितो द्यां नाऽद्यापि भूमौ स्वपदं दधाति । ते सिद्धसेनार्कमुखा यतीन्द्रा, जयन्ति शास्त्रग्रथनप्रवीणाः ॥ ९ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy