SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ किञ्चिदश्नाति वा-इत्येते प्रश्ना ममाऽन्तरालोपवने झञ्झामिव समुत्थापितवन्तः । स खलु निरन्तरमेव करतलद्वयं भूमौ संस्थाप्य, कायं प्रणिधाय, स्मिताननः सन् १ * रामनामस्मरणं कृतवान् । C विचित्र एवाऽऽसीदसौ भिक्षुकः । शतावधानः प्रतीयते स्म । काचिन्महिला * तस्मै पायसं प्रयच्छन्ती कथयति स्म-साधो ! अद्य मम गृहे पुत्रजन्मोत्सव आसीत् । 8 भवत्कृते पायसमानीतं मया । एतदिदं भवत्समुद्गके स्थाप्यते । अवसरमवाप्य , भुञ्जीथाः । तत्सर्वमाकर्पोऽप्यसौ स्मितकमात्रं प्रकटितवान्, स्वरामनामस्मरणं न जातु स्थगयति स्म । एवमेव नित्यायायिनः केचन परिचयवशाद् निमेषमात्रं स्थित्वा 7 तस्य कुशलमनामयं पृष्ट्वैवाऽग्रेसरन्ति स्म । स खलु सर्वेषां वचनानि, प्रस्तावानशृणोत् । कदाचिद् द्वित्राणां पञ्चषाणां वा 5 वार्ता एकैकशोऽशृणोत्,सम्भूय वाऽशृणोत् । परन्तु समेषां प्रियजनानां कृते B तदुत्तरमेकमेवाऽसीत् - लघुस्मितकमात्रं रामनामसहकृतम् । इयमेवाऽऽसीत् तस्य शतावधानता । अयमेवाऽऽसीत् तस्य समाधिर्योगो वा । कूर्मोऽङ्गानीव सर्वान् बाह्यविषयान् सर्वश आत्मनि संहृत्य रामनाम्नि स्थितोऽसौ प्रकृत्यैव स्थितप्रज्ञः ॐ प्रतीयते स्म । मम पदगतिमेव प्रत्यभिज्ञायाऽसौ मुखमुद्यम्य स्मितं प्रकटयति स्म । यथा नु पृच्छत्येव माम्-वत्स ! विश्वविद्यालयं गच्छसि ? अपि सर्वं कुशलम् ? अध्ययन . सम्यक्तया प्रवर्तते ? काऽपि समस्या बाधते किम् ? एते प्रश्नास्तेनाऽपृष्टाः सन्तोऽपि पृष्टा एव प्रतिभान्ति स्म । अहमपि कल्पितमात्रं तदीयं वात्सल्यसमुदाचारमनुभूय प्रत्यङ्ग प्रहृष्ट इव सञ्जातः । शनैः शनैर्ममाऽऽसक्तिस्तस्मिन् प्रगाढा सञ्जाता । इयमासीन्मदीया भक्तिर्वा निष्ठा वा? जिज्ञासा वा समुत्कण्ठा वा ? कुतूहलोपशान्तिप्रयत्नो वा तद्रहस्याधिगमप्रयासो वा? एतत्सर्वं नाऽहं वेद । तथाऽपि लौहखण्डमिव चुम्बकस्य तस्याऽऽकर्षणं मां प्रसह्याऽऽचकर्ष बबन्ध च । ततश्च कस्मिंश्चिद् दिनेऽहं सान्ध्यकाले तमुपगतः । अद्य मया सङ्कल्पितमासीद् । यद्रामनामस्मरणावसान एव तं द्रक्ष्यामि । सान्ध्यविद्युद्दीपा राजमार्गेषु गृहेषु चाऽपि सन्दीप्ता आसन् । स खलु साञ्जलिपुटप्रणामं भगवन्तं प्रणम्य नामजपं परिसमाप्य । 1 प्रच्छदविकीर्णा दशपणक-विंशतिपणक-पञ्चाशत्पणकमुद्रा अन्विष्याऽन्विष्य संहर्तुं । १११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy