________________
श्रीपालः सविशेष निवेद्य, तैः साकमेव ममाऽपि भोजनप्रबन्धं कृतवान् । सर्वमिदानी सम्पन्नं जातम् । परिचये घनीभूते, प्रीतिरपि प्रगाढात् प्रगाढतरा जाता। सर्वेऽपि रिक्शाचालका मय्यतितरां स्निह्यन्ति स्म । यः कोऽपि विश्वविद्यालयदिशि
आगच्छन् मामपि सप्रणयं सनिर्बन्धं निर्भाटकमानयति स्म । सायङ्कालेऽपि प्रायेण * नगरादावासमुपावर्तमानः पथि मिलितः कोऽपि मां गडरियापुरं यावदानयति स्म ।
मम भाग्यद्वारमपावृतमासीदिदानीम् । श्रीपालकृपया सम्प्रत्यहं प्राच्यकेम्ब्रिजपदवाच्ये इलाहाबादविश्वविद्यालये प्रविष्टो जातः । संस्कृतेतिहासाङ्ग्लभाषाश्चेति त्रयो
मम पाठ्यविषया आसन् । E कतिपयमासनन्तरमेव छात्रवृत्तिरप्यवाप्ता । छात्रावासे कश्चित्कक्षोऽपि - मह्यमावण्टितः । सजलनयनः सन् सर्वान् रिक्शाचालकानकारणबन्धून् प्रणम्य, ॐ श्रीपालं च भूयो भूयः प्रचुम्ब्य, समालिङ्ग्याऽहं छात्रावासमागतवान् ।
. ताराचन्दच्छात्रावासात् नाऽतिदूर आसीद् विश्वविद्यालयः । अत एवाऽहं 3 पदातिरेव प्रायेण सार्धनववादने कक्षान्निष्क्रम्य कोषागार(बैङ्क)मार्गेणाऽऽसाद्य र पक्षद्वारदिशात एव विश्वविद्यालयमागतवान् । एवङ्करणे पञ्चदशनिमेषा एवाऽपेक्ष्यन्ते ।
कस्मिंश्चिद् दिने मम दृष्टिः क्वचित् केन्द्रिता जाता । अयमासीत् कश्चिदन्धो P भिक्षुकः । स खलु कोषागारमार्गस्थ एव कस्मिंश्चिद् वटवृक्षाधःस्थले स्थितो 'राम
राम ! राम राम !' इतिमात्रं रटन् परिलक्ष्यते स्म । न कोऽपि याञ्चाशब्दः, न वा । - किमपि निवेदनम् । न केनाऽपि सह वार्ता । न चाऽपि रामशब्दोच्चारणक्रमे काऽपि
त्रुटिः, भङ्गोऽवरोधो वा । सर्वथा निरपेक्षभावेन रामस्मरणं कुर्वन्नसौ महान् तपस्वी र प्रतीयते स्म ।
प्रथमदृष्टौ न मे किमप्यधिकमाकर्षणं जातम् । दशपणकानां मुद्रां कामपि तस्मै दत्त्वाऽहं विश्वविद्यालयं गतवान् । एवमेव कदाचित् किमपि दत्त्वा, कदाचिदत्त्वा, - कदाचिदुत्तरमनपेक्ष्याऽपि स्वप्रणामं निवेद्य, कदाचिच्च कतिपयनिमेषान् यावत् तस्य * रामस्मरणमुद्रामात्रं सश्रद्धमवेक्ष्याऽहं गतागतानि समपादयम् ।
स खलु धूसरप्रच्छदं स्वकीयमास्तीर्योपविशति स्म । पार्श्व एव तस्य लघ्वी वंशयष्टिः समुद्गकं चेति द्वयं दृश्यते स्म । कदाऽयमायाति, कुत आयाति, सायङ्काले 96 कुत्र गच्छति, रामस्मरणमध्यावधौ कदा मेहननिमित्तमुत्तिष्ठति, कदा वा जलं पिबति
११०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org