________________
तत्राऽभूदेवचन्द्रोऽनुपमगुणनिधिः श्राद्धधर्मानुरक्तोऽर्हत्पूजाबद्धवृत्तिः सुकृतपरिणतेयों द्वितीयो विलासः । लक्ष्मीचन्द्रस्तनूजोऽमलमतिनिलयस्तस्य जज्ञे गुणानां विश्रान्तिस्थानमात्मप्रतिकृतिरपरो जैनधर्मैकनिष्ठः ॥ ७९ ॥ गाम्भीर्ये योऽम्बुराशिः कुलयुगकमलोलासने पद्मबन्धुर्दोषाद्रिव्रातपक्षप्रवरविघटने ख्यातकीर्तिः सुरेशः । . नीतिग्रामावमर्श सुरगुरुरपरो धर्मचर्चाप्रवीण: श्राद्धाचारेषु दक्षः पुरजनमहितोऽन्वर्थनामा स एकः ॥ ८० ॥ साधुभ्यः शास्त्रवाश्रिवणमनुदिनं योऽकरोद्धर्मवृद्ध्यै सन्देहोच्छित्तये यो विबुधमुनिवरान् तत्तदर्थानपृच्छत् । सन्तोषानन्दमग्नो न च परविषयं यो जगामाऽर्थवृद्ध्यै श्लाघापात्रं जनानामभवदनुपमं श्राद्धवर्यः स विज्ञः ॥ ८१ ॥ सत्सङ्गे यस्य रागोऽभिरुचिरनुदिनं धर्मकृत्यप्रसङ्गे व्यासङ्गोऽन्योपकारे व्यसनमतितरां संश्रुतार्थावमर्श । श्रद्धा वीरोक्तमार्गे नमनविरचना सद्गुरोः पादपद्मे दानं पात्रेषु भोगो नियमितविषये सोऽभवत् कृत्यदक्षः ॥ ८२ ॥ यन्नामार्थोत्थशङ्काकवलितहृदय: सागर: किं नु साक्षाद् दृष्टं(द्रष्टुं?) लक्ष्मी च चन्द्रं निजसुतयुगलं तत्पुरस्योपकण्ठम् । आगत्यैवाऽत्यगाधं परिमितिविमुखं सत्तलावाप्तिशून्यं गाम्भीर्यं यस्य दृष्ट्वा गलितनिजमदोऽवस्थितोऽभूत् सदैव ॥ ८३ ॥ दीपाली तस्य भार्या महितकुलभवा श्राविकाचारनिष्ठा शीलालङ्काररम्या रमणचरणगाऽपांशुलानां वरिष्ठा । दक्षा गेहक्रियायामकपटहृदया मान्यसम्माननोत्का साध्वीनां सत्प्रसङ्गे विनयपरवशाऽभूददीनस्वभावा ॥ ८४ ॥
इति प्रथमः सर्गः ॥
शासनसम्राड्-विशेषः
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org