________________
प्रत
M
MITTIMITIIIIIIIIIIIIIII
- अथ द्वितीयः सर्गः ॥
mmmmmmmy
(वंशस्थविलं छन्दः) करोतु कल्याणततिं जिनेश्वरः, समस्तभावारिबलप्रमर्दनः । अपश्चिमो 'वीर' इति प्रथां गतो, निरर्गलज्ञानमयोऽनघागमः ॥ १ ॥ तयोः स्वधर्माचरणैकलीनयोः, कुलीनयोः प्रीतिजुषोर्मियोऽभितः । अनल्पपुण्योदयसुप्रभावतो, बभूव पुत्रोऽथ सुलक्षणाञ्चितः ॥ २ ॥ नवा-ऽक्षि-निध्ये-कमितस्तु (१९२९) वत्सरो, यदीयजन्मादिदिनादजायत । तिथिर्द्वितीया प्रतिपत्पुरस्कृता-उपराह्मयज्जन्मसुमङ्गला बभौ ॥ ३ ॥ किमूर्जमाक्षो(?सो?)ऽपि दधन्नवीनतां, न शुक्लपक्षाश्रयतामगाहत । वरा विशाखाऽप्यतुलाङ्गसंषा(?या?), सुयोगमासाद्य भृशं व्यराजत ॥४॥ शुभग्रहः स्वं गृहमास्थितो बभौ, निरीक्षमाणो निजसद्भुवा भृशम् । उपेत्य केन्द्रग्रहम्प्यसूचयत्, परप्रकर्षं ननु यस्य जन्मगः ॥ ५ ॥ अमाऽपि दीपालिप्रभाविराजिता, सुपर्वतां पूर्वगता दधौ समा । अकृष्णपक्षोन्नतिमात्रवत् परे, यदुद्वेऽनष्ट भियेव कृष्णता ॥६॥ गृहे गृहे पञ्च दिनानि भूतले-ऽखिलेषु देशेषु बभूव मङ्गलम् । सुवस्त्रनेपथ्यविभूषणोज्ज्वला, नराश्च नार्यश्च चकाशिरे भृशम् ॥ ७ ॥ प्रमोदसम्पूरितमानसा जना, महोत्सवावाप्तिलसत्प्रभाञ्चिताः । कुटुम्बसान्निध्यमवाप्य सादरं, स्वतत्रतां यज्जनुषा प्रपेदिरे ॥ ८ ॥ विशेषतस्तद्दिन एव सर्वतो, जनाः स्वधर्माभिनिबद्धमानसाः । स्वपूज्यदेवान् स्वगुरूंश्च सादरा, अपूपुजन् स्वस्वलसत्समृद्धिभिः ॥ ९ ॥ परस्परप्रीत्यनुरञ्जिता जना, मिथोऽमिलन्नन्वभवन्नथो मुदम् । तथाविधस्य प्रभवो विभूतये, भवत्यशेषस्य जनस्य हि ध्रुवम् ॥ १० ॥ स्वदानशौण्ड(ण्डी)र्यविवेकप्रेरिताः, स्वभूतिसामर्थ्यविलोपभीरवः । समागतानर्थिजनान् स्वकिङ्करान्, तदेष्टदानैः समप्रीणयन्न के ? ॥ ११ ॥ शुभाशुभोच्चावचसंस्थितग्रहा-वबोध्यप्राक्कर्मप्रपञ्चचित्रताम् । प्रकाशयत्यत्र जनस्य नाम तत्, स'नेमचन्द्रे'त्यभिधामधारयत् ॥ १२ ॥ अयं प्रकर्षावधिमत्र सर्वतो, जिनागमोक्ताखिलतत्त्वबोधतः । धुवं सदाचारगणं न पिष्यती-त्यतोऽस्य नेमेत्यवधौ जगुर्जनाः ॥ १३ ॥
१२
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org