________________
अनन्तधर्मात्मकवस्तुसत्प्रथा, प्रकार्यनेकान्तलसन्महापुरे । अयं नु प्राकारगतिं श्रयिष्यती-त्यतोऽस्य नेमेत्यथवा विदुर्बुधाः ॥ १४ ॥ कलानिधेरस्य कलानवाप्तितो, ध्रुवं स चन्द्रो विकलो दिने दिने । समेषु मासेषु प्रयात्यथार्थता-मवाचि नेमेति तदर्धतो बुधैः ॥ १५ ॥ जगत्सु प्रह्लादनमस्य जन्मना, समन्ततोऽजायत तन्निबन्धना । अकारि चन्द्रेत्यभिधार्थयोगिनी, निरुक्त्यभिज्ञैरिव वप्तृभिर्मुदा ॥ १६ ॥ अयं हि नेता भविता क्रियावतां, महत्त्वमुच्चैः सुधियां श्रयिष्यति ।। जगत्सु चन्द्रोज्चलकीर्तिभाजनं, स नेमचन्द्रेत्यत ईरितो जनैः ॥ १७ ॥ स बालकोऽबालप्रभाकरप्रभो, विशालभालप्रभया विराजितः । विशिष्टसामुद्रिकलक्षणाञ्चितः, प्रकाशयन् स्वस्य विशिष्टतां जने ॥ १८ ॥ भवालिसेवासु वशा सरस्वती, यदात्मतादात्म्यमशिश्रियत् पुरा । प्रकाशनं तस्य प्रकर्तुमुद्यता, सुदन्तपङ्क्तिच्छलतो विनिर्ययौ ॥ १९ ॥ सुबालभावेऽप्यसमानतां दधन्, मुखं क्च बालस्य निरस्तलाञ्छनम् । अहं क्च पूर्णोऽपि कलङ्कषितो, मन्ये विचार्येति शशी क्षयी ह्रिया ॥ २० ॥ मुखोपमावाप्तिकथाऽपि मे वृथा, न चाऽस्य पादोपमयाऽपि सङ्गतिः । इतीव वैराग्यमवाप्य पङ्कजो, वने निलीय स्थितिमाततान किम्? ॥ २१ ॥ उर:स्थले नाऽस्य समानता नवा, भवेन्ममोर:स्थल इत्यनिश्चये । सुदूरदेशाश्रयणं ममोचितं, विचार्य सिंहो गहनं वनं ययौ ॥ २२ ॥ पदोपसेवाप्रवणे मयि ध्रुवं, कदाचिदास्यैक्यमसौ विधास्यति । विचिन्त्य चेत्थं नखपङ्क्तिकैतवा-निशाकरो नूनमशिश्रियत्यदम् ॥ २३ ॥ अबालचन्द्रप्रतिमो दिने दिने, यथा यथावर्धत बालकोऽन्वयम् । तथा तथा वतृमनोरथः समं, स्वधर्मवृत्त्याऽमलयाऽप्यवर्धत ॥ २४ ॥ तमद्भुतं तर्कवितर्कधीधनं, विलोक्य वप्ता कुलकीर्तिकेतनम् । सरस्वतीसनि तत्पदाप्तये, न्ययोजयत् पाठक सन्निधौ द्रुतम् ॥ २५ ॥ स प्राप्तशिक्षो गणिते विशिष्टता, वणिक्रियोद्योतकरे ययौ भृशम् । क्रमेण सप्तस्वपि देशभाषया, चितप्रबन्धेषु बभूव पण्डितः ॥ २६ ॥ स आङ्गलेऽपि प्रतिपत्तिमान्नयं, प्रवेशमापाउनु विशेषशिक्षया । परीक्षितोऽनेकश एव शिक्षकै-र्न पूर्वकक्षामुदलङ्घयत् तथा ॥ २७ ॥
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org