________________
एकदा केनचित् कार्येण राजमार्गानिःसृतस्य तस्य पादः शिलाखण्डेनैकेन में पथि पतितेन घट्टितो जातः । तीव्रवेदनया पीडितः स तत्रैवोपविष्टः । किञ्चिद्वेलानन्तरं
दरोपशान्तवेदनः स चिन्तितवान् यद् 'अयं शिलाखण्डो यद्यत्रैव पतितः स्यात् तर्हि बहूनां जनानां सङ्घट्टनं भविष्यति पीडाव्रणादिकं चाऽपि भविष्यन्ति । अत एनमित उत्थाप्याऽन्यत्र स्थापयेयं येन कस्यचिदपि बाधा न भवेत् ।'
ततो यावत् स तं शिलाखण्डमुन्नीतवान् तावता तदधः सुवर्णमुद्राभिः पूरित एकस्ताम्रघटस्तत्दृष्टिपथमायातः । तं घटं दृष्ट्वाऽनेन चिन्तितं यत्, 'केनाऽपि स्वीयं धनमत्र निधिरूपेण गोपितमस्ति तत्प्रत्यभिज्ञार्थं च सङ्केतोऽपि कृतोऽस्तीति ज्ञायते, अतो न मयाऽयं परकीयो निधिग्रहीतव्यः, अत्रैवाऽयं तिष्ठतु नाम ।' एवं विचार्य स ततो निर्गत्य गृहं प्राप्तः ।
रात्रौ वेदनार्ते पादे औषधं लेपयन् स स्वपत्नी तत्सर्वं सुवर्णमुद्रापूरितघटादिवृत्तं कथितवान् । अथ तद् वृत्तं तदैव तस्य गृहे चौर्यार्थमागतश्चौरः कश्चिच्छृतवान् । 'अहो ! विनाऽऽयासेनैव यद्येतावद् धनं प्राप्येत तर्हि कः क्षात्रादिपरिश्रमं वा कुर्यात् ?' इति चिन्तयन् स चौरस्तेन निर्दिष्टं स्थानं गत्वा झटित्येव तं शिलाखण्डमपनीतवान् । ततो लघुदीपसाहाय्येन यावत् तदन्तः पश्यति तावत् तत्र वृश्चिकैः पूर्णो घटस्तेन दृष्टः । तदा क्रोधेन, 'हुम्-इयती वञ्चना ! इदमिदानीमेव तस्य वञ्चनायाः फलं दर्शयामि' इत्यादि चिन्तयन्नसौ तं घटं गृहीत्वा तस्य जनस्य गृहं प्राप्तो, गृहोपर्यारुह्य पटलं चाऽपसार्य गृहमध्ये एव तं घटं 'सर्वे वृश्चिका एनं दशन्तु' इति बुद्ध्याऽधोमुखीकृतवान् । तावता खणणण--- इति ध्वनि कुर्वत्यः सर्वा अपि सुवर्णमुद्रास्तस्य जनस्योपर्येव पतिता।
____एतद् दृष्ट्वाऽतीव हृष्टः स कथितवान् यद् 'यदा भाग्यं फलति तदा छदिषं पाटयित्वाऽपि ददाती'ति ।
१०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org