________________
तदाऽनेन पुष्कलं धनं नैके चोष्ट्रास्तदश्वात् प्रति निवेदितास्तथाऽपि तेन सज्जनेन स्वोऽश्वोऽ तिप्रियत्वात् नैवाऽर्पितस्तस्मै ।
अथ च स वणिक् 'कथमप्ययमश्वो मया हस्तसात् कर्तव्य एवे 'ति निश्चयं कृत्वा तत्प्राप्त्युपायांश्चिन्तितवान् । 'अयं ह्येवमेव मेऽश्वं नैव दास्यत्यत एनं वञ्चयित्वैवाऽश्वं हरिष्यामि' - इति विचार्य स रोगिणो भिक्षुकस्य वेषेण राजमार्गे उपविष्टः । यदा स सज्जनस्तेनैव मार्गेणाऽश्वचालनं कुर्वन् समागतस्तदा तस्य भिक्षुकस्य दुरवस्थां दृष्ट्वा तच्चित्ते करुणा समुत्पन्ना । तत्समीपं गत्वा स कथितवान् • 'भोः ! कुत्र जिगमिषति भवान् ? उपविशतु ममाऽश्वोपरि । गन्तव्यस्थाने भवन्तं प्रापय्याऽहं प्रत्यागमिष्यामि ।' कपटभिक्षुकोऽपि तन्निशम्य शनैः शनैरश्वमारूढः । सज्जनश्चाऽयं यावत् पदातिरेव गन्तुं प्रवृत्तस्तावता स वणिक् कशयाऽश्वं प्रहृत्य वेगेन गच्छन्नुक्तवान् - ‘भो ! भवता तदा मया बहुशो याचितेऽपि महता मूल्येनाऽपि मेऽश्वो न दत्तस्ततो मया भवानेवं वञ्चितो भवदश्वं प्राप्तुम् ।'
तदाऽयं सज्जन उच्चैस्तं कथितवान् - 'भो ! यदि भवता कैतवेन ममाऽश्वो गृहीतस्तदा भवत्वेवं नाम । भवानश्वं गृहीत्वा गच्छतु तं च सम्यक् पालयतु । किन्तु भवता कस्यचिदपि वञ्चनवार्तेयं न कथयितव्या । अन्यथा जनाः सर्वेऽप्यत्यधिकं सावधाना भविष्यन्ति दीन-दु:खिनां च सहायकरणे साशङ्का भविष्यन्ति कदाचिद् विरंस्यन्ति चाऽपि । अनेन च बहवो दुःखिनः सहायं न प्राप्स्यन्ति ।'
1
एतच्छ्रुत्वा स भिक्षुवेषी धनिको बहु लज्जितो जातस्तदैव चाऽश्वतोऽवरुह्य तस्य सज्जनस्य पादयोः पतितः, तस्मै चाऽश्वं प्रत्यर्प्य तेन सह मैत्रीं कृतवान् ।
(३) भाग्यं फलति छदिषोऽपि
सोऽतीव सौम्यो भद्रिको नीतिमांश्चाऽऽसीत् । यद्यपि दारिद्यं तं बहु पीडयति स्म, तथाऽपि कुमार्गैर्धनमर्जयितुं स्वप्नेऽपि न विचारयन् स सन्तोषेणैव निजजीवनं यापयति स्म । सौभाग्येन तत्पल्यपि तत्सदृश्येव स्वभावेनाऽऽसीत् । अतः सुखेन • तयोः सहजीवनं प्रचलति स्म ।
Jain Education International
१०४
For Private & Personal Use Only
www.jainelibrary.org