SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ कथानायी मुनिकल्याणकीर्तिविजयः (१) भगवन्नाम्नः शक्तिः एकदा एकः कश्चिद् राजा निरागसं कञ्चिद् ब्राह्मणं हतवान् । पश्चात् तेन स्वीयो दोषो ज्ञातः । अतः पश्चात्तापपूर्णः सन् स ब्रह्मवधस्य घोरपापात् स्वात्मनो मोचनार्थं प्रायश्चित्तं कर्तुं स कस्यचिद् ऋषेराश्रमं गतवान् । ऋषिस्तु कार्यवशात् कुत्रचिद् गतवान् आसीत् । अतो राज्ञा तच्छिष्याग्रे स्वपापं प्रकटितं प्रायश्चित्तं च पृष्टम् । शिष्येण किञ्चिद् विचार्य कथितं - 'भो राजन् ! शुद्धेन मनसा भवान् त्रिभगवतो नाम गृह्णातु, भवतः सर्वोऽपि दोषो विनक्ष्यति शुद्धश्च भवान् भविष्यति।' राजा तं नमस्कृत्य स्वनगरं प्रतिनिवृत्तः । इत आश्रमे प्रतिनिवृत्त ऋषिः शिष्यमुखाद् राज्ञः प्रायश्चित्तविधानं श्रुत्वाऽतीव रुष्टो जातः । स स्वशिष्यमुपालब्धवान् - 'भो ! केवलमेकवारमेव गृहीतमपि भगवन्नामाऽसङ्ख्यानां जन्मनां पापानि नाशयितुं समर्थमस्ति । तथाऽपि भवता राजे त्रिर्भगवन्नाम जपितुमादिष्टं तद् भवतः श्रद्धाया ऊनत्वं ज्ञापयति ।' (२) कैतवम् एकस्य सज्जनस्य पार्श्वे एक उत्तमोऽश्व आसीत् । अत्यन्तं सुन्दरो जात्यश्च सोऽश्वस्तस्मै अत्यधिकं प्रिय आसीत् । कदाचित् स तमश्वमारुह्याऽश्वचालनं कुर्वन् केनचिद् धनिकेन वणिजा विलोकितः । अश्वं दृष्ट्वैव स वणिग् विस्मयमुग्धो जातः । तेन चिन्तितं यद् 'यद्ययमश्वो मदीयः स्यात् तदा कियद् वरम् ? अहमप्यसाविवाऽश्वचालनानन्दं प्राप्नुयाम् । जनेषु च मम गौरववृद्धिरपि भवेत् ।' ततः स तस्य सज्जनस्य गृहसङ्केतं प्राप्य तत्पावें गतः । तेनाऽपि स वणिक् सम्यक् सत्कृत्योचिते आसने उपवेशितः । विविधं वार्तालापं कुर्वन् सोऽवसरं प्राप्य तस्याऽश्वस्य विक्रयणार्थं तं प्रार्थितवान् । किन्तु सज्जनेन तत्प्रार्थनं निराकृतम् ।। १०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy