________________
तं बालमप्यमितबुद्धिनिधानमाराच्छ्राद्धं स वृद्धिविजयो गुरुरीक्ष्य बुद्ध्या । सन्दिग्धमत्रपदनिश्चयनाय प्रायोऽपूच्छद् रहस्यमनुरञ्जितसभ्यवर्गम् ॥ १४ ॥ बुद्धिं विवेकनियतां परिणामरम्यामाधाय सोऽपि परजुष्टमतानपेक्षः । मन्त्रं तथैव विदधौ गुरुरप्यमन्दानन्दो यथाऽभवदगाधविचारकक्षः ॥ १५ ॥ इत्थं गुरोः परमप्रीतिमवाप्य नेमचन्द्रो विचारनिपुणो विनयप्रधानः । संवत्सरं त्वगमयत् पठनादिकर्मव्यासङ्गतां गुरुसमीपगतो विबुद्धः ॥ १६ ॥ वप्ता प्रवृत्तिमुपलभ्य सुतस्य चाऽस्य शुद्धां कुमार्गविमुखां विनयादिरम्याम् । लोक प्रवृत्तिमनुरुध्य पुरीं स्वमातुः पञ्चत्वदुःखमुपजीव्य *तमानयत् स्वाम् ॥ १७ ॥ प्रौढः स कार्यवशतः पितुरेव बुद्धिं मध्यस्थवृत्तिमवलम्ब्य धियाऽनुगच्छत् । नानाविधानि परिणामकटूनि तत्र भोग्यान्यभुङ्क्त स विरक्ततरोऽपि यस्मात् ॥ १८ ॥ तस्मिंस्तथाऽऽगतवति स्वगुरोः सकाशाद्, दीक्षकबद्धहृदये नररत्नवर्ये । भूयः पलायनमथाऽस्य विशङ्कमानो वप्ता प्रमादरहितस्त्वभितो बभूव ॥ १९ ॥ आसक्तिमांश्च बहिरेव कुटुम्बवर्गे नाऽन्तस्तथाऽपि विनयी स तु नेमचन्द्रः । वप्तारमात्मनि सरागमवेक्ष्य लक्ष्मी
चन्द्रं तथैव विदधे न यथाऽस्य खेदः ॥ २० ॥ * तमाशु निन्ये-इत्यपि पाठः ।
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org