________________
माता स्वभावसरलाऽस्य विलोक्य चाऽमुं स्वाभाविकं परमप्रेम प्रदर्शयन्ती । सुस्वादुमिष्टमुपभोज्य सुभक्ष्यजातं सेहादुपाचरदतीव वरं सुतं तम् ॥ २१ ॥ मोहाभिभूतमथ सोऽकलयत् समस्तं सम्बन्धिवर्गमपनिद्रमतिः कुमारः । प्रच्छन्न एव पुनरप्यपहाय गेहं सोडगाच्च भावनगरे गुरुपादमूलम् ॥ २२ ॥ आगत्य तत्र गुरुवर्यमसेवताऽलं भूयोऽप्ययाचत गुरुं प्रणतः स दीक्षाम् । एकान्ततो ग्रहमसौ प्रविलोक्य तस्य तस्यां गुरुः श्रितदयोऽमितधीरुवाच ॥ २३ ॥ त्वं बालकोऽसि तत एव मया न दीक्षा तुभ्यं प्रदीयत इतो न निमित्तमन्यत् । धर्माधिकारिनिकटं तव बन्धुवर्गो दीक्षाग्रहे सति गमिष्यति नूनमेव ॥ २४ ॥ योग्योऽसि कृत्यनिपुणोऽसि विनेयधुर्यो हे नेमचन्द्र ! वद किं करणीयमत्र ? । पूर्वं समीक्ष्य करणं विदुषो हि शस्तमप्रेक्ष्यकारिणमतीव हसन्ति सन्तः ॥ २५ ॥ सुश्रावका अमरचन्द्रमुखास्तु सर्वे मवन्तमिष्टमनुजग्मुरनल्पविज्ञाः । प्रौढः स एव पुनराह दृढप्रतिज्ञो नम्रो गुरुं विगतभीरपनीतमोहः ॥ २६ ॥ धर्माधिकारिभवने गमनं ममेष्टं दीक्षाकृते मतिमतां वर ! निर्भयोऽहम् । दास्यामि तत्र पितरं प्रति वीतमोहः प्रत्युत्तरं ननु यथा भविता जयश्रीः ॥ २७ ॥
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org