________________
नाऽहं भवन्तमिह कर्मणि लेशतोऽपि स्वार्थं करोमि शमभङ्गभयातिथेयम् । माध्यस्थ्यमात्रमवलम्ब्य भवान् ससङ्घो यलं विलोकयतु मे स्वसमीहिताय ॥ २८ ॥ दीक्षार्थमित्यमपभीतममुं विलोक्य सुश्रावकस्त्वमरचन्द्र उवाच विज्ञः । साहाय्यमत्र तव कर्मणि सर्व एव कुर्मो वयं गुरुकृपा भविताऽत्र सिद्धयै ॥ २९ ॥ सङ्घस्य तस्य च तथाऽऽग्रहतो विचारो दीक्षां प्रदातुमचिरेण समुल्लास। . तत्रैव वृद्धिविजयस्य भवाब्धिपारोतारार्थमुद्यमजुषो भवभीतिभाजाम् ॥ ३० ॥ ज्ञात्वा कुटुम्बसहितः पुनरस्य लक्ष्मीचन्द्रो विचारमतिदाय॑पदप्रतिष्ठम् । आगत्य तंत्र बहुधा समबोधयत् तं गेहे व्यस्थितिकृते सुतप्रीतिबद्धः ॥ ३१ ॥ बालोऽप्यमन्दधिषणानिलयो निरीहो निर्व्याजमाह जनकं सकुटुम्बमेतत् । पुत्रं कुलद्वययशस्करमत्र विद्धि दीक्षाप्तितो दृढप्रतिज्ञममुं त्ववश्यम् ॥ ३२ ॥ यूयं यथा त्वहितमेव हितं विबोध्य मां बन्धनाय सममिच्छथ बन्धुवर्गः । युष्मांस्तथैव हितमेव हितं विबोध्य मुक्त्यै निनीषुरहमस्मि भवाब्धिमग्नान् ॥ ३३ ॥ मोहप्रवृत्तिस्थ चेद् भवतां विशाला सा रोहलेशविमुखे मयि युज्यते नो । अन्योन्यरागनियता न तु वृद्धिमेति यस्मादियं विहतरागपदे कथञ्चित् ॥ ३४ ॥
शासनसम्राड्-विशेषः
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org