SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ - यो बालचन्द्र इति ते प्रथितस्तनूजो मत्तोऽवर: स भविता कुलवृद्धिहेतुः । तिस्रः सुताः गृहविभूषणतां दधन्त्यो मोदं पितस्तव न किं परिपूरयन्ति ? ॥ ३५ ॥ इत्यादि प्रीतिवियुतं वचनं तदीयं तथ्यं हितं च न पितू रुचितं बभूव । तं दण्डनीत्यधिकृतातुलभीतिभङ्ग्या नेतुं हठादथ स ऐच्छदगाधधैर्यम् ॥ ३६ ॥ नीतिप्रपञ्चनिपुणः स तु नेमचन्द्रो नैवाऽवसत् समुचितोत्तरदानदक्षः । तरमादबुद्धिजनभीतिविधानदक्षा धर्माधिकारिनिकटानयनाद्युपायात् ॥ ३७ ॥ माता तु तस्य पुरतोऽतिरुरोद सोरस्ताडं विषण्णवदना करुणाईचित्ता । मोहाभिभूतमनसस्तु जनास्तदानीं तद्रोदनेन समदुःखमवापुरज्ञाः ॥ ३८ ॥ तां तादृशीं स जननी सुतरागनद्धां वैराग्यबद्धहृदयो दृढसत्त्व एवम् । प्रोवाच येन जनताऽतिचमत्कृताऽभूत् वीतस्पृहत्वमतुलं भवतो विभाव्य ॥ ३९ ॥ मातः ! स्वमृत्युसमनन्तरमत्र सर्वे यद् रोदयन्ति जननीं न च तत्र चित्रम् ।। चित्रं त्विदं यदहमग्रत एव जीवन् संरोदयामि भवतीं स्वसमीहितार्थी ॥ ४० ॥ नो रोदनेन न च तर्जनया न भीत्या त्यक्ष्यामि वो निजसमीहितदां प्रतिज्ञाम् । चिन्तामणिं निजकरे समवाप्य को जो वार्धावगाधसलिले क्षिपति प्रसह्य ॥ ४१ ॥ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy