SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ तेजोनिधेः समुदयो यदि पश्चिमायां वारांनिधेरपि च वृद्धिरतीत्य वेलाम् । स्थानं विहाय चलनं च भवेत् सुमेरोनों मे तदाऽपि चलनं शुभसङ्गरस्य ॥ ४२ ॥ इत्थं सुनिश्चितविचारमपेतरागं तं नेमचन्द्रमवधार्य मुमोद सङ्गः । माता रुरोद सुतरत्न वियोगखिन्ना वप्ता कथञ्चिदपि धैर्यमुरीचकार ॥ ४३ ॥ बाणाब्धिनिध्युडुपसम्प्रमितेऽथ वर्षे (१९४५) ज्येष्ठे सिते दिवसनाथतिथौ सुयोगे । लग्ने परीक्षितवहे समुहूर्त्तयुक्ते दोषप्रमोषललिते गणकालिगीते ॥ ४४ ॥ श्रीतख्तसिंहनूपतेरवदातकीर्तेः राज्ये समुल्लसति भावपुरे वरिष्ठे । लोके प्रमोदभरतुन्दिलतां दधाने धर्मप्रवृत्तिनियतोत्सवसावधाने ॥ ४५ ॥ सङ्ख्ये गुणौघनिलये कलितप्रमोदे दीक्षां स वृद्धिविजयो मुनिराप्तमुख्यः । तस्मै ददौ प्रथितपञ्चमहाव्रताढ्यां नामाऽपि नेमिविजयेत्यकरोच्च तस्य ॥ ४६ ॥ सङ्घः सुधर्मस्थगो भविता विमुक्तिगामी त्ववश्यमवनौ सुदृढादमुष्मात् । चक्राभिधां च तत एव विचार्य नेमिं यस्मिन् गुरुः प्रथितकीर्तिरुपाददे नु ॥ ४७ ॥ अध्यैष्ट नेमिविजयो मतिमत्प्रधानः काव्यानि पञ्च रघुवंशमुखानि शीघम् । श्रीभानुशङ्करप्रदर्शितकाव्यमार्गवैदग्ध्यतोऽतिपटुताऽस्य बभूव तत्र ॥ ४८ ॥ शासनसम्राड्-विशेषः २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy