SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ बालोऽसि तेऽत्र जनको जननी च नूनं श्रुत्वाऽऽगमिष्यत इमां भविता तदानीम् । सङ्के तयोस्तु परिदेवनतो नितान्तम् कोलाहलो मम ततो भविता न शान्तिः ॥ ७ ॥ कालेन सेत्स्यति तवाऽभिमतं त्ववश्यं तिष्ठाऽत्र सम्प्रति समाचर साधुसेवाम् । सामायिकादिकरणीयमनन्यचित्तः काले विधाय पठ नित्यविधिं यथावत् ॥ ८ ॥ सुश्रावकोऽस्त्यमरचन्द्र इहाडग्रगण्यः सङ्केषु कृत्यनिपुणो यशराजपुत्रः । यस्याडमला रुचिरतीव जिनोक्तधर्मे स्याद्वादतत्त्वमननप्रवणा च बुद्धिः ॥ ९ ॥ तस्यैव मत्रमुपजीव्य कुशाग्रबुद्धे ! स्वाभीष्टसाधनपरो भव वृद्धसेविन् ! । नित्यक्रियामनुदिनं कुरु साधुपाचे पञ्चप्रतिक्रमणसूत्रमधिष्व सार्थम् ॥ १० ॥ एतादृशान्यनुपमानि वचांसि विज्ञो लब्ध्वाऽऽयतौ गुरुवरात् तु सुखावहानि । धीमन्तमप्यमरचन्द्रमथाऽऽशु नेमचन्द्रः स्वपक्षगमसावकरोत् सुवृत्त्या ॥ ११ ॥ पुर्यां स तत्र शिशुरप्यभिनन्दनीयो वृद्धैरुदारचरितैः क्रियया बभूव । निस्सीमप्रीतिरत एव शुभप्रवृत्तौ तस्मिन् मुनेरपि विनीततरे बभूव ॥ १२ ॥ सान्ध्यं विधिं प्रतिदिनं स गुरोः सकाशे कृत्वा विशुद्धमनसा गुरुपादसेवी । आवृत्तिमभ्यसितसूत्रततेविधाय मत्रं गुरोरकलयन्निशि सावधानः ॥ १३ ॥ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy