SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ E अथ तृतीयः सर्गः । m mmmmmmmmmmmm (वसन्ततिलका छन्दः) श्रेयः समादिशतु नो जिनराज आप्तो वीरो निसर्गकरुणापरिपूर्णचित्तः । सङ्ख्यावताममितबोधविधानदक्षां यो देशनां व्यधित तत्त्वमयीं त्रिपद्या ॥ १ ॥ श्रीवृद्धिचन्द्रमसमां समतां दधानं प्राप्यैव भावनगरे स तु नेमचन्द्रः । आत्मानमिष्टततिपद्धतिजागरुकोऽज्ञासीद् भवाब्धिपरपारगतं कृतार्थम् ॥ २ ॥ लब्ध्वा विनीतमुपनीतगुणालिसात्म्यं दीक्षोन्मुखं व्यपगताखिलदोषबन्धम् । सम्भाव्य वृद्धिविजयोऽपरतोऽप्रधृष्यमानन्दकन्दमपसीममविन्दताडलम् ॥ ३ ॥ भालं विशालमथ तस्य विलोक्य दधे चित्ते सुलक्ष्मललितं स मुनीन्द्र एवम् । नदं भविष्यति सुपण्डित एष वाग्मी भव्योपकारनिरतोऽभिमतो बुधानाम् ॥ ४ ॥ प्रागल्भ्यमस्य पुनरप्रतिमं यथाऽस्ति बाल्येऽपि मध्यवयसामपि यदुरापम् । तेनाऽनुमा भवति मे नियतात्र बाले श्रीजैनसङ्घमहिमोन्नतिकारितायाः ॥ ५ ॥ इत्थं विचारयति तत्र गुरावनिद्रः स्वाभीष्टकर्मणि कुमारसम: कुमारः । भक्त्या प्रणम्य गुरुवर्यमपेतदोष दीक्षामयाचत तमाशु स कृत्यविज्ञः ॥ ६ ॥ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy