________________
स राम आत्मादिरुपाददेऽभिधां, तृतीय आनन्दपदादिमां बराम् । य आत्मशब्दं गुणवाचिशब्दतो, विकार्य रामे विजयं समादधत् ॥ ५६ ॥ उदाहृतेष्वेषु विनेयशिक्षणे, स वृद्धिचन्द्रोऽभवदग्रणीमुनिः । समेऽप्युपाये विनयादिरञ्जिता, विनेयशिक्षाऽस्य फलेग्रहिर्यतः ॥ ५७ ॥ सनेमचन्द्रः शुभभाग्यवैभवाद्, गुरुं तमाप्तं हृदयेऽकरोत् स्वयम् । न कल्पवृक्षो वरदातृतास्पदं, स्वयं हि सेव्योऽर्थिभिरेव किं गुणैः ॥ ५८ ॥ सुनिश्चिते तत्र हृदा गुरौ यतो, गुणाधिके भावपुरस्थिते पुनः । तदन्तिकं गन्तुमना ह्यभावयत्, भवस्थितिं सूक्ष्मधियेत्थमिद्धधीः ॥ ५९ ॥ न मे परप्रीतिपदाय मत्पिता, कुटुम्बसम्पोषणप्रत्यलं सुतम् । झटित्यनुज्ञां कथमप्यदुःस्थितो, जिनेन्द्रदीक्षार्थमसौ प्रदास्यति ॥६० ॥ कथं नु माता सुतवत्सला तथा, भवप्रवृत्त्येकनिबद्धमानसा । सहिष्यति त्यागमकाल एव मे, गृहस्य गेहोचितकर्मपण्डिता ॥ ६१ ॥ कुटुम्बवर्गस्तु निजार्थमप्यलं, मम प्रवृत्तिं प्रतिरोत्स्यति ध्रुवम् । न दृश्यते सम्प्रति हेतुरीदृशो, भवेदनुज्ञा ननु सर्वतो यतः ॥ ६२ ॥ इमे यथा स्वस्वहितार्थमुद्यता, मदिष्टसिद्धिं गणयन्ति नो वराम् । तथैव चाऽहं स्वहितार्थमुद्यतो-ऽप्युपैमि चैषां कथमीहितं स्वयम् ॥ ६३ ॥ सहस्रशः सन्ति च पुत्रिणो जना, वसुन्धराभारतयैव विश्रुताः । स एव पुत्री विरलस्तु गीयते, सुतो यदीयः स्वपरोपकृत भवेत् ॥ ६४ ॥ जनो गृहस्थः स्वहितेऽपि कातरः, परापकार्येव विलोक्यतेऽभितः । सुदीक्षितस्त्वत्र मुनिर्जनान् बहून्, नयन् सुमार्गे स्वकुलं पुनाति हि ॥ ६५ ॥ कुलद्वयस्याऽपि च कीर्तिरुज्ज्वला, जिनेन्द्रदीक्षाग्रहणेन मे धुवम् । अतो ह्यनुज्ञामनवाप्य पितृतो, गुरोः सकाशे गमनं वरं मम ॥ ६६ ॥ इत्थं श्रीनेमचन्द्रो विदितनिजहितो निर्ममो बन्धुवर्गे वैराग्याकृष्टचित्तो भवविभवततौ निःस्पृहो धर्मरक्तः । कार्ये स्वस्याऽप्रमत्तः पितरमनुसरन् प्राप्य कालं सुयोग्यं गुप्तोऽगाद् वृद्धिचन्द्रं प्रति गुरुप्रवरं निर्भयीभूय विज्ञः ॥ ६७ ॥
इति द्वितीयः सर्गः ॥
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org