SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ न स गणितवान् वात्सल्यादौ वसुव्ययमार्हतो यदिह ननु तत्तीर्थस्यैव प्रभावफलं स्फुटम् । किमुत फलितं श्रीमन्नेमेर्वचोमृतवर्षणाज्जिनमतरुचिर्बीजं तत्त्वोपदेशसुशीतलात् ॥ ५६ ॥ सविधिरचिता यात्रा तीर्थाधिपस्य च साऽपरा निजजनिपटौ सङ्के सेशे ततान यशोलताम् । सुकृतमतुलं लब्ध्वा सङ्घाधिपोऽपि मुनेः कृपां निजसहचरी कृत्वा सङ्घात् ततः स्वपुरं ययौ ॥ ५७ ॥ मुनिवरमणिर्नेमिः सङ्घाधिपाग्रहतस्तदा स्वपुरनयनकान्तान्मुक्तः कथञ्चिदथो पुनः । अभवदमितैः श्राद्धैः तत्तत्पुरागतयात्रिकैनिजनिजपुरे नेतुं प्रार्थोऽतिभक्तिसमुत्सुकैः ॥ ५८ ॥ समुचितहितादेशैस्ताँस्तान् ननु ग्रहभाजनं समयनिपुणः कुर्वन्नेमिर्जगाम स योगकृत् । समयनिपुणैः सार्धं गम्भीरसञ्जमुनीश्वरैः पुरवमतिप्रद्वैः श्राद्धैः स भावपुरं नुतः ॥ ५९ ॥ सकलममलं धुत्या नव्यं सिताम्बरराजितं शुचिदलगतं नेत्रद्वन्द्वप्रवृत्त्यवलोकितम् । समुचितकर: पूर्णं शीतांशुबिम्बमिवाऽपरं प्रविशति मुनौ कान्तं जातं नु भावपुरं पुरम् ॥ ६० ॥ कलयति मुनौ तस्मिन् तत्त्वोपदेशतरङ्गिणी विमलपथगां सूत्रस्तोमालसत्तनुविस्तृताम् । अतनुविभवोऽप्येत्याऽमन्दप्रमोदभरोऽभवत् निकटममलीभूयाऽत्यन्तं कुमार्गलसत्क्लमः ॥ ६१ ॥ प्रमुदिततर: सो जातस्तदागमनादपि प्रथममभितस्तत्तत्प्रश्नोत्तरावगतेस्ततः । तदनु चणाभङ्गोल्लासप्रवृत्त्यवलोकनादिति मुनिवरे तरिमन् योगोद्यतेऽपि विशिष्टता ॥ ६२ ॥ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy