SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ मुनिजनगुणग्रामोत्कर्षानुमोदनतत्परो प्रतिहतमतिस्तत्तत्साध्वादिकृत्यपरीक्षणे । सुकूतकरणे दक्षः सङ्घाग्रणीरमरोडप्यरं शमदमनिधेर्नेमभक्त स्तरामभवद् गुणैः ॥ ६३ ॥ मधुपुरवणिक् बालः श्रीमालवंशसमुद्गवः त्रिपुरनिधिकौ (१९४३) पौषे जन्मी प्रपूर्णनिशाकरे । सुनिकटमगानेमेर्दीक्षा ग्रहीतुमकल्मषः सरलहृदयस्तस्यां पुर्यां च सुन्दरसञ्जकः ॥ ६४ ॥ मुनिमणिरमुं बालं नेमिर्विभाव्य सुलक्षणं शुचिसितयमे दीक्षां दत्त्वा स्वशिष्यमथो व्यधात् । यदभिहितवान् तरिमन्नन्वर्थदर्शननाम तदुचितसमये भाव्यं न्वर्थं प्रतीत्य मुनिर्धवम् ॥ ६५ ॥ प्रथयति मुनौ चातुर्मास्ये सुयोगतपश्चयं प्रसरति वरे सङ्केऽन्योन्यं सुसख्यफलेऽनघे । अवधिनियते साधोः पूर्युन्मुखे समये स्थितेनियतिवशत: कञ्चिद् ग्रन्थिज्वर: पुरि चोद्गतः ॥ ६६ ॥ समयनिपुणौ तौ द्वौ गम्भीरनेमिमुनीश्वरौ मुनिपरिवृतौ वर्तजाख्यं पुरं किल जग्मतुः । अपि कुशलिनः सर्वे सान्निध्यमेत्य तयोर्द्वयोः चरणनिरतास्तस्थुस्तरिमन पुरे विगतामयाः ॥६७ ॥ चातुर्मास्ये व्यतीते वरसनिधिविधौ (१९६०) वत्सरे सम्प्रवृत्ते अव्याबाधाख्ययोगोद्वहनकृतिरतो नेमिनामा मुनीन्द्रः । श्रीगम्भीरेण साकं सुमति-सुखनिधि-प्रेमसम्मिश्रितोडगाउच्छ्राद्धैः सम्प्रार्थ्यमानः पुरि पुरि विहरन् वल्लभीसनपुर्याम् ॥ ६८ ॥ इति सप्तमः सर्गः ॥ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy