SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अथ शुभतरे लग्ने सङ्घश्चचाल गिरीश्वरं विधिमनुसरन् पूर्वाचार्यप्रवर्तितमादरात् । प्रतिपुरमुपश्लोक्यैः सङ्घार्थनापरिपालनरनुपमजनश्लाघाक्रान्तो बभौ पथि सोऽद्भुतम् ॥ ४९ ॥ अमितधिषणं नेमि यान्तं मुनीश्वरमर्थनात् गिरिवरमुपश्रुत्य श्राद्धाः सहस्रश आययुः । पथि सुमिलितैस्तैस्तैः सोऽमितैरमितप्रभोऽभवदतितरां धर्मोन्नत्यै जनेषु रुचिप्रदः ॥ ५० ॥ पुरि पुरि कृतां पूजां श्राद्धैः सुभक्तिपुरस्सरं कृतप्रतिकृतौ दक्षो गृह्णन् स सङ्घ उपाययौ । अचलप्रवरं सिद्धिक्षेत्रं मुनीन्द्रविराजितं सुकृतवसुना पत्या छोटाभिधेन सुपालितः ॥ ५१ ॥ वसुवितरणं छोटालालः स सङ्घपतिस्तदा गणयदुचिते कार्य नैवाऽर्हतो विदितान्वयः । मुनिवरवचस्त्वाज्ञां काले विदन् यदपालयत् तदलभदिलाव्याप्तां कीर्तिं तुलाविगतां जने ॥ ५२ ॥ जनसमुदयः सङ्घायातस्तदा विमलाचलं जिनप्रतिकृतीभव्या द्रष्टुं रुरोह गतक्लमः । ननु सुरपति वं मोदं प्रयाति यथाऽन्वभूत् सुखमनुपमं सो रूढो गिरिप्रवरं स तु ॥ ५३ ॥ अहमहमिका सङ्के प्रत्येकशी जिनपूजनेऽभवदतितरां पत्या सा सुभक्त्युपजीविता । सुममलयजाद्यङ्गैः कश्मीरजादिसमन्वितैः जिनप्रतिकृतीः को नोऽभूदर्चितुं पुर उत्सुकः ? ॥ ५४ ॥ सुकृतनिचयैर्लभ्यां पूजां प्रपद्य ससङ्घयुक् पतिरुपचितः छोटा भाता सुभक्तिभिरार्हतः । यदलभदनाहार्यं वाचामगोचरमैहिकं सुखमनुपमं तत् किं लभ्यं पुरे हमरेशितुः? ॥ ५५ ॥ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy