________________
र
समग्रशास्त्रपारावारपारीण-सर्वसगुणगणालङ्कारसौजन्यसुधासिन्धु-
निर्व्याजविशुद्धतमवात्सल्यवारिधिसमस्तसूरिचक्रचक्रेश्वर-पूज्यप्रवर-श्रीमनन्दनसूरीश्वर
___ महाराजपादानां दीक्षाब्दप्रारम्भात् ।
षष्टिवर्षसमाप्तिविषयकमहोत्सवमधिकृत्य हृद्रतभावाविष्कारविभासुरा नैसर्गिकप्रहर्षपूरपरिप्लाविता प्रशस्तिः ।
स्व. कविभालचन्द्रः
___ स्तम्भतीर्थम् प्रज्ञापारमितो मितेतरमहावीरत्वविभ्राजितोनीलौदार्यकलाकलापकलितो विज्ञानविद्योतितो विद्यावैभवभावितोऽमरगुणैरासेवितो विश्वजिद् भव्यो भारतभूतले विजयते सौराष्ट्रदेशो महान् ॥ १ ॥ चकास्ति नगरं तत्र शक्रोपवनसन्निभम् । बोटादाभिधया तस्य प्रतिभा भुवि विश्रुता ॥ २ ॥ शास्त्रज्ञाः समयानुकूलप्रतिभाः पुण्यप्रभाभासुराः मर्मज्ञा नितरां विवेकनिपुणाः श्रेयःसुखोन्मेषिणः । आत्मज्ञानपरायणा भवसुख्खे दोषानुसन्धायिनः केचित् तत्र वसन्ति रम्यनगरे जैनाः सुशीलान्विताः ॥ ३ ॥ यमुना-हेमचन्द्रारव्यौ दम्पतीधर्मशालिनौ । एतन्नगरवास्तव्यौ जिनभक्तिपरायणौ
॥ ४ ॥ साधूनां चैव सूरीणां व्याख्यानामृततर्पितौ । पवित्रौ सरलौ नूनं संसारासारबोधिनौ
॥ ५ ॥ तयोः पुण्यप्रभावौघो जिनभक्तिविवर्धितः । पाण्डवेषुग्रहमाब्दे (१९५५) कार्तिकस्य सिते दले ॥६॥ एकादश्यां तिथौ नूनं लग्ने पारीन्द्रसजिते । मेषस्थिते विधौ तत्र पर्यणंसीत् सुतात्मना ॥७॥ प्रकर्षतां सर्वजनेषु तावत् सम्भोक्ष्यते बालक एष एव । इतीव नूनं मनसाऽवधार्य नरोत्तमोऽसौ विहितोऽस्ति नाम्ना ॥ ८ ॥
७२
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org