________________
॥ १० ॥
॥ ११ ॥
॥ १३ ॥
पूर्वोपार्जितभक्तिवैभववशात् पुण्यस्य पाकात् तथा, सत्संस्कारसुधाप्रसेक सहिता कर्मक्षयोत्पादिनी । वैराग्यस्य लता विवेक विहिता तत्स्वान्ततो निर्गता, दीक्षाया ग्रहणे नरोत्तमममुं शीघ्रं समुत्प्रेरयत् आकाशनगनन्देन्दुमिते (१९७०) संवत्सरे शुभे । सिते माघद्वितीयेऽह्नि दीक्षामापदसौ मुदा ज्योतिःशास्त्रार्णवो मान्यो, विजयोदयसूरिराट् । तद्गुरुस्थानमापन्नः, सर्वशास्त्रविशारदः नव्यदीक्षितचर्यस्य, नन्दनं विजयान्तिमम् । नामसंस्करणं जातं, नेमिसूरिप्रभावतः न्याय-व्याकृति - साहित्य-निगमागमपारगाम् । व्यापार्य शेमुषीं तीक्ष्णां ज्ञानाब्धि तीर्णवानसौ एतस्य लोकोत्तरवैभवाढ्यं, प्रज्ञाप्रकर्षं परमं विचार्य । गुरुर्गुरोरस्य व्यधान्मनीषामेनं तु पन्यासयितुं मुनीन्द्रम् ॥ १४ ॥ लोकानां हृदयङ्गमं च सरलं सच्छास्त्रसारोज्ज्वलं, सद्युक्त्यावलिमण्डितं शिवकरं गाम्भीर्यभावोदयम् । प्रज्ञावैभवमाकलय्य यमिनोऽस्याऽऽसीन्मतिः सूरीणां, पन्यासस्य पदे नियोक्तुमनघं योगीन्द्रराजं च तम् ॥ १५ ॥ वियद्दिग्गजभक्तीन्दुमिते (१९८०) विक्रमवत्सरे । पन्यासपदमारूढो, यमीन्द्रोऽयं महायशाः पन्यासेन्द्रवरोऽथ जैनजनतास्वान्ते प्रतिष्ठां परां वैदुष्पोत्तमवैभवेन च तथा भक्तेः समुद्रेकतः । सम्प्राप्येह मुमुक्षुवृन्दमखिलं सद्बोधपीयूषयुग्व्याख्यानेन सदा प्रहर्षपरमां सीमानमानाययत् गुणवसुनिधिपृथ्वीसम्मिते (१९८३) वैक्रमाब्दे, परमपुनितमासे माधवे शुक्लपक्षे । गणक वरवितीर्णे सन्मुहूर्ते दशम्यां, पदमयमधिरूढः सूरिसञ्ज्ञं समृद्धम् भास्वानेष न चण्डदीधितिरसौ, किं चन्द्रमाः सोऽम्बरे ?,
॥ १६ ॥
॥ १८ ॥
किं शक्रः स सहस्रनेत्रमहितो भूमौ न सन्तिष्ठते ।
शासनसम्राड्-विशेषः
Jain Education International
७३
For Private & Personal Use Only
॥ ९ ॥
॥ १२ ॥
॥ १७ ॥
www.jainelibrary.org