SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Post: प्रलपितं स्यात् । 'अप्यस्ति तादृशं किमपि सङ्गीतं यद् तुभ्यं 'हम्... हम्.... सशब्दं यत् स्याद् यस्य च स्वराणामनुगुञ्जनं मम शक्यं स्यात् तादृशं हि सङ्गीतं मह्यं रोचेताऽपि । पुनः स पृष्टवान् रोचेत ?' इति । सस्मितं स मस्तकमधुनोत् । मम प्रत्युत्तरेण स आनन्दितो जात इत्येतेन स्पष्टं ज्ञायते स्म । 'उदाहरणतः ?' .... 'चित्रपटसङ्गीतगायकस्य बिंगक्रोस्बीमहाशयस्य यत्किमपि गीतम् ' सधैर्यमहं प्रत्युत्तरितवान् । 'साधु साधु ।' पुनः स मस्तकं व्यधूनयत् । प्रकोष्ठस्य कोणे स्थिताद् लघुकोष्ठाच्च ध्वनिमुद्रिकान्वेषणं स प्रारब्धवान् । अहं ह्यस्वस्थतयैव तच्चेष्टितं निरीक्षमाण आसम् । अन्ततस्तस्य मुखं विकसितमिवाऽभूत् 'आह !' इत्यानन्दोद्गारस्ततो निःसृतः । स हि ग्रामोफोन-यन्त्र सञ्चालितवान् । पञ्चषनिमेषैरेव च बिंगक्रोस्बीमहाशयस्य - 'व्हेर ध ब्लु ओफ ध नाइट मिट्स ध गोल्ड ऑफ ध डे (यत्र हि रात्र्या नीलिमा दिवसस्य सुवर्णमाश्लिष्यति) इति गीतेन खण्ड: स समग्रतया व्याप्तो जातः । त्रिचतुरपङ्क्तयो गीतस्य प्रवृत्ता । अनन्तरम् आइन्स्टाइनमहोदयः सानन्दं मां प्रति दृष्ट्वा पृष्टवान् - 'अथ कथयेत् किल यद् भवता किं श्रुत' मिति ? Jain Education International गीतस्य गानमेव प्रश्नस्यैतस्य सरलमुत्तरमासीत् । महता कष्टेनाऽहं मम स्वरभङ्गं संरुध्य यथाशक्यं माधुर्येण तदगायम् । तेन आइन्स्टाइनमहोदयस्य मुखे यो भावः समुद्गतः स उदीयमानस्य सूर्यस्य प्रकाशतुल्य आसीत् । 'अरे वाह !' मम गानेन समुल्लसित: स उक्तवान् - 'भवान् सङ्गीतं बुध्यत एव !' इति । - ' तत्तु मम प्रियं गीतमासीत् । बहुशश्च तन्मया श्रुतमप्यासीद्, अतो नाऽस्त्यस्य गाने किमपि वैशिष्ट्यम्' इत्यादिरूपं किमपि तदाऽहं स्वगतमिव जल्पितवान् । ९९ For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy