SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ) X ५ आइन्स्टाइन उक्तवान् - 'अरे ! मैवं चिन्तयतु । इदमेव विशिष्टं महत्त्वपूर्ण चाऽपि । अपि स्मरति भवान् यद् विद्यालये गणितं कथं शिक्ष्यते ? प्रथमं तावदकानां परिचयो दीयते । अथाऽङ्कानां परिचयदानानन्तरमेव यदि बहुलानामङ्कानां गुणनं विभजनं वा शिक्षयितुमारभेत तदा किं भवान् तत कर्तुं शक्नुयात् ?' "नैव, किल ! " 'आम् सत्यम् !' आइन्स्टाइनमहाशयो विजयीव मुद्रां कृतवान् - 'सत्यमेवैतद् यद् भवान् तथा कर्तुं नैवाऽशक्ष्यत । अपि च तदर्थं दुःखमपि भवतः स्यादेव । गणितविषये भवत उत्साहोऽपि मन्दोऽभविष्यत् । परिणामतः शिक्षकस्यैतादृश्या लघ्व्या अपि क्षतेः कारणादाजीवनं भवान् गणितस्य 5) सौन्दर्यमानन्दं वा नैव प्राप्स्यत् ।' धूमवर्तिका तस्य पुनस्तरङ्गिता जाता - 'किन्तु, गणितशिक्षणस्य प्रथम एव दिवसे न कोऽपि शिक्षक एतादृशं मूर्खत्वमाचरेदपि । प्रथमं स सामान्यबोधं दद्यात् । अङ्कानां सुकरं गुणनं विभजनं वा स प्रथमं शिक्षेत । पश्चाच्च शनैः शनैः स कठिनं गुणनादिकं शिक्षेत । सङ्गीतविषयेऽप्येषैव रीतिः' - आइन्स्टाइनमहोदयो बिंगक्रोस्बीमहाशयस्य ध्वनिमुद्रिकां गृहीतवान् – 'एतन्मधुरमपि सुबोध गीतं सामान्यगुणनविभजनतुल्यमस्ति । तत्तु भवता सम्यग् ज्ञातम् । अथो भवानतोऽपि किञ्चित् कठिनं सङ्गीतमवबोद्भुमर्हति ।' स ह्यन्यां ध्वनिमुद्रिकां मृगयित्वा वादितवान् । 'ध ट्रम्पेटर' इति गायतो जोह्नमेक्कोरमेकस्य मधुरो ध्वनिः सर्वत्र प्रसृतः । पञ्चषनिमेषानन्तरं स गीतं स्थगितवान् - 'अथ भवानस्याऽनुगानं करिष्यति, सत्यम् ?' अत्यन्तं जागरूकतया स्वयमपि चाऽहमाश्चर्यं प्राप्नुयां तावताऽवधानेनाऽहं तस्य गानं कृतवान् । आइन्स्टाइनमहोदयो मां निरीक्षमाण आसीत् । तदा हि तस्य वदने यादृशो भावः समुद्भूतस्तादृशं भावमहं जीवने तत्पूर्वमेकश एव दृष्टवानासम् : विद्यालयस्याऽन्तिमे दिने यदाऽहं वक्तव्यं कृतवान् तदा मम पितुर्वदने तादृशो भावः समुद्गत आसीत् । _ 'सुन्दरम् !' मम गानानन्तरम् आइन्स्टाइनमहाशय उक्तवान् 'अद्भुतम् । अथ चेदम्-' अमा १०० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy