________________
Rohi
तदनन्तरं गीतं ततोऽपि कठिनमासीत्; किन्तु तथाऽप्यहं प्रयतवान् । तेन च आइन्स्टाइनमहोदयस्य वदनमाह्लादेन प्रकाशितमिवाऽभूत् ।
तदनु च प्रायोऽन्या द्वादश ध्वनिमुद्रिका वादिता: । अस्य महतो जनस्यैनां पद्धतिमधिकृत्याऽहं प्रथमत एवाऽस्वास्थ्यमनुभवन्नासम् । आकस्मिकतयैवाऽहं तस्य सन्निधिं प्राप्तवानासम्; अधुना चाऽत्र यत् प्रवर्तमानमासीत् तत्र हि स तथैकाग्रो जातो यथाऽहमेव केवलं तस्य चिन्ताया मध्यबिन्दुः स्याम् ।
एवमेव शनैः शनैरस्माकमियं सङ्गीतयात्रा शब्दरहितसङ्गीतपर्यन्तमागता । अथ मया शब्दशून्यानां केवलं स्वराणामेवाऽनुगानं करणीयमासीत् । उच्चैश्च स्वरालापो मया प्रारब्ध: । तच्छ्रुत्वा आइन्स्टाइनमहोदयस्य वदनं विकसितमिव जातम् । मस्तकं च तस्य पश्चाद् गतम् । मदर्थं चाऽप्राप्यप्रायं मम प्रापयितुं साहाय्यं चिकीर्षुरिव तस्य तच्चेष्टितमासीत् !
स हि ग्रामोफोन - यन्त्रं स्थगितवान् ।
'अथ'... स्वहस्तेन मम हस्तं स गृहीतवान् : 'बाक-सङ्गीताय वयं सज्जाः किल ! '
सभामध्ये आवयोः स्थानमावां पुनर्गृहीतवन्तौ । तदा च गायकास्तत्र नवीनं कञ्चित् स्वरं संयोजयन्त आसन् । 'मुक्तमनसा केवलं शृणोतु तावत् ' आइन्स्टाइन - महोदयो मम कर्णे मन्दमुक्तवान् : 'नाऽधिकं किमपि करणीयम् ।'
किन्त्वधिकं तु तेनैव कृतमासीत् । कस्यचित् सर्वथाऽपरिचितस्य जनस्य कृते ये प्रयत्नास्तेन कृतास्ते यदि न कृताः स्युस्तर्हि बाकमहोदयस्य 'शीप मे सेइफली ग्रेझ' - इति गीतं मया कदाऽप्यास्वादितं न स्यात् । तदनु च तद्गीतं मयाऽनेकशः श्रुतम् ; तच्छ्रवणेन च न कदाऽपि मया खेदोऽनुभूतः । यतो नाऽहं कदापि तदेकलः शृणोमि, किन्तु यदा कदाऽप्यहं तच्छृणोमि तदा श्वेतविकीर्णकेशस्य ओष्ठद्वयमध्यस्थितधूमवर्तिकस्य विस्मयसम्भृतनेत्रस्य तस्य जनस्य सान्निध्यं सततमनुभवाम्येव ।
समारम्भसमाप्तौ मया यः करतलध्वनिः कृतः स मम हार्दिक - मानन्दमेवाऽभिव्यनक्ति स्म ।
सहसैव कार्यक्रमस्य निमन्त्रणदात्री स्त्री अस्माकं पुरः समुपस्थिता 'अहं बहु विषण्णाऽस्मि, डॉ. आइन्स्टाइनमहोदय !' म्लानदृष्ट्या मां निरीक्षमाणा
Jain Education International
१०१
For Private & Personal Use Only
www.jainelibrary.org