________________
Coboob
मनसि किञ्चिन्मात्रमपि मूल्यं न स्यात् किन्तु तस्य कृते तु तन्महत्त्वपूर्णमासीत् । अपरं च तस्य प्रतिभैव तादृश्यासीद् यदस्य पुरतोऽसत्यभाषणं स्वल्पमपि कर्तुं नोचितमित्यहमनुभूतवान् !
'बाकविषयेऽहं किमपि न जानामि' - किञ्चिद् दुविधयाऽहमुक्तवान् - 'तस्य सङ्गीतं हि पूर्वं कदाऽपि मया नैव श्रुतम्' ।
आइन्स्टाइनमहोदयस्य मुखेऽपि व्यग्रतामिश्रितमाश्चर्यं प्रसृतम् । 'अपि बाकमहोदयस्य सङ्गीतं नैव श्रुतं भवता ? ' तस्य घोष एव तादृश आसीद्, यथा कश्चित् पृच्छतीव-अपि भवता कदाऽपि स्नानमेव न कृतम् ? इति ।
मया त्वरितं प्रत्युत्तरितम् - 'सङ्गीतविषयेऽहं बधिरप्रायोऽस्मि । कस्याऽपि सङ्गीतं मया श्रुतं नाऽस्तीत्येव सत्यम्' इति ।
वयोवृद्धस्य तस्य महाशयस्य मुखे चिन्ता व्याप्ता । 'अपि मया सहाऽऽगमिष्यति भवान् ?' अकस्मादेव स पृष्टवान् ।
उत्थाय च स मम हस्तं गृहीतवान् । जनसम्मर्दमध्यात् स मां बहिर्नीतवान् । विकला च मम दृष्टिरास्तरण एव कीलितेव जाता । एतद् दृष्ट्वाऽऽश्चर्यचकितेषु जनेषु मन्दं मन्दं जायमानः कलकलध्वनिः खण्डाद् बहिर्निर्गमनं यावदस्माभिः श्रुतः । किन्तु, आइन्स्टाइनमहाशयस्तं बाढ मुपेक्षितवान् ।
दृढतया स मां गृहस्योपरितनभूमिकां नीतवान् । स हि तद्गृहस्य व्यवस्थया सम्यक् परिचितोऽस्तीति तस्य व्यवहारेण प्रतीयते स्म । खण्डमेकमुदघाट्य स मामन्तरुपवेशितवान् । स्वयं च तस्य द्वारं पिहितवान् । पश्चाद् वेदनामिश्रितेन स्मितेन स मां पृष्टवान् - 'अथ कथयतु नाम यत्-सङ्गीतविषये एतादृशो भावः कियता कालेन प्रवर्तते ?'
'आ प्रारम्भादेव' - अहमुक्तवान् । अनेनाऽस्वास्थ्यमहमनुभवन्नासम् । अत: - ‘डॉ. आइन्स्टाइनमहोदय ! अहमिच्छामि यद् भवानधः सभायामुपविश्य सङ्गीतमास्वादयतु नाम । अहं तदास्वादयितुं न शक्नोमीत्यस्य नाऽस्ति तावत् किमपि महत्त्वम्' इति कथितवानहम् ।
एतच्छ्रुत्वा स तथा मस्तकं व्यधूनयद् यथा मया किमप्यसम्बद्धं
Jain Education International
९८
For Private & Personal Use Only
www.jainelibrary.org