SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 6 एतदपराधभयादेव भवद्विषये नाऽद्य किञ्चित् पृच्छामि । सम्प्रति गमिष्यामि । % अन्यथा भोजनकालेऽतिक्रान्ते सति भोजनालयकक्षोऽर्गलित एव सन्द्रक्ष्यते । , 9 भूयोऽप्यागमिष्यामि । इत्युक्त्वा यावदेवाऽहं गन्तुमैच्छं तावदेव तातोचितादेशगिरा मां सम्बोधयन्नसौ भिक्षुरवदत् - - वत्स ! मदिच्छाविरुद्धमेव मय्यासक्तोऽसि जातः । मदिच्छाविरुद्धमेव मया : सह मत्कुटीरं यावत् समागतोऽसि । अहमपि तावदीश्वरेच्छां मत्वा सर्वमपि । तव प्रस्ताव स्वीकृतवान् । ईश्वरेच्छयैव प्रेरितः सन् स्वकीये दारुणदुर्घटितप्रचुरे जीवने प्रवेष्टुं त्वामहमनुमतवान् । सर्वथाऽसम्बद्धमपि दृष्टिहीनमिमं भिक्षुकं तातपदेन सम्बोध्य समादृतवानसि । तदिदानी ताताधिकारेणैव त्वामहमनुशासिष्यामि । ममाऽऽदेशं स्वीकरिष्यसि नवा ? मह्यं वचनं देहि। तातोऽवदत् । - तात ! कोऽयं सन्देहः ? त्वत्कृते जीवनमपीदं समर्पितम् । कथं न भवद्वचनं करिष्ये ? अहमुक्तवान् ।। - साधु, तर्हि समोदं गच्छ । श्वस्तने सान्ध्यकाले भूयोऽपि वार्तां करिष्ये । ___ततश्च छात्रावासमहमुपावृत्तः । परन्तु मध्येमार्ग चिन्तेयं नितरां बाधिततवती * यत् किमनुशासिष्यति मां तातपादः ? किं मां भूयोऽप्यागन्तुं निषेधिष्यति ? उताऽहो वर्धमानं सम्बन्धमुच्छेत्तुं कथयिष्यति ? यद्येवमभूत् तर्हि दत्तपरिपालनवचनः किमहं करिष्ये ? कथं नाऽद्यैव सर्वं स्फुटीकृतं मया ? एवं चिन्तयमान एवाऽहं छात्रावासमुपावृत्तः । ततश्चाऽग्रिमेऽहनि सान्ध्यकाले भूयोऽप्यहं भिक्षुवरेण सार्धं तत्कुटीरमगच्छम् । परन्त्वद्याऽऽवयोः साहचर्ये मुखरता नाऽऽसीत् । अहमपि भीत इवाऽऽसम् । साधुरपि प्रायेण मौनमेव समाश्रयत् ।। - अथ मां ह्यस्तनं वृत्तं स्मारयन् भिक्षुकोऽसौ निजात्मकथामश्रावयत् - पार्श्ववर्तिन्येव कस्मिंश्चिद् ग्रामेऽसौ निवसति स्म । पापपरायणाः प्रतिवेशिनः * धनवैभवोन्मत्ताः तद्गृहस्थाने काञ्चित् कर्मशाला निर्मापयितुमैच्छन् । परन्त्वसौ स्वपितृपितामहानां भवनं भूमिं च परित्यक्तुं कथमपि समुद्यतो नाऽऽसीत् । तत एव. 8 ईर्ष्याद्वेषरोषोपहतचेतसस्ते जाल्माः कस्याञ्चिद् रात्रौ तस्य पत्नीं पुत्रं च निर्दयं हतवन्तः। तस्याऽपि गृहपतेर्नयनयोविषाक्तं क्षाररसं भृतवन्तः ।। - - ११५ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy