SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ कुटुम्बविनाशसन्तप्तो विनष्टदृष्टिश्च मासं यावदसौ नेत्रौषधालयेऽवसत् । परन्तु कृतेऽपि बहुश उपचारे नेत्रज्योतिर्न मनागप्यवाप्तम् । स्फुटितनेत्रोऽसौ भूयोऽपि स्वग्रामं 100 नैवोपावर्तत । व्यथितो हताशः सन्तप्तः सन् सर्वमिदं स्वपूर्वजन्माचरितदुष्कर्मपरिपाकमानं . मत्वाऽसौ रामनामस्मरणमेव जीवनालम्बनं विधाय प्रयाग एव स्थितो जातः । पुत्रकलत्रहीनोऽधुना कं नु द्रष्टुं ग्रामं गच्छेत् ? रोदनपुरस्सरं कथेयं मया श्रुता । आसीन्मे मनसि - हे परमेश्वर ! एवंविधाः 8 पापा अपि मनुष्या एव कथ्यन्ते ? आत्महिताय परेषां विनाशः ? स्वकर्मशाला निर्मापयितुं परकीयभवनोत्पाटनम् ? कुतस्त्योऽयं न्यायः ? आः दैव ! तातपादानां सर्वानन्दोपनिचितः कुटुम्ब एव क्षयमुपनीतः ? क्रोधामर्षवशान्ममाऽन्तराले भूकम्प 5 इव समुत्थः । शोकवेगं यथाकथाञ्चिन्नियम्य मयोक्तम् । -- तात ! इतोऽग्रे भवच्छातकानां विनाश एव भविष्यति मज्जीवनलक्ष्यम् । तान् । पापानहमवश्यं न्यायालयकोष्ठागारे स्थापयिष्यामि । सरोषमवदम् । - न, न । न कदाऽपि । वत्स ! मैवम् । प्रतिज्ञातं त्वया ह्यस्तनसन्ध्यायाम् । ममाऽनुशासनं स्वीकरिष्यसीति दत्तवचनोऽसि त्वम् । तत् सावधानं शृणु यत् । कथयामि । भूयोऽपि नाऽहं किञ्चिद् भणिष्यामि । - तात ! कथय । एष शृणोम्यहम् । - महेश्वर ! एवं प्रतीयते यथा दिवङ्गतं स्वपुत्रं पुनरपि प्राप्तवानहम् । इतः प्रभृति त्वमेव मत्पुत्रोऽसि । अहमिच्छामि यद्धनाभावस्तवाऽध्ययनमार्गे प्रत्यवायो न भवेत् । अत एव रामनामस्मरणावाप्तदक्षिणाधनराशिं यं कमपि कोषागारे , निक्षिप्तवानहं तमुपयोजय त्वमात्मकार्येषु । वत्स ! इतोऽग्रेऽहं परमार्थतस्तव तातपाद एव । सम्बन्धमिमं स्वीकरोम्यात्मधन्यतया । परन्तु नाऽयं सम्बन्धो लोके प्रकाशनीयः । लोकदृष्ट्या तु भिक्षुरेव भविष्याम्यहम् । महेश्वर ! कतिपयवर्षानन्तरमेव स्वाध्ययनं परिसमाप्य किमप्यधिकारिपदमवाप्स्यसि । स्वभवनं कुटुम्बमपि स्वकीयं कल्पिष्यसि । परन्तु वत्स! न मां कदाऽप्यात्मभवने स्थिरमवस्थातुमनुरोत्स्यसि । अहमाजीवनं स्थास्यामि स्वकुटीर एवाऽस्मिन् । ११६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy