________________
चौलुक्यं नृपतिं ररक्ष सभयं श्रीहेमचन्द्रो मुनिः सिद्धार्थान्नृपतेश्च यत्र नगरे तीर्थोत्तमे युक्तितः । श्रीमान् वाचकराड् यशोविजयवाक् ख्यातोऽमितज्ञानभृद् यत्रौन्नत्यमरं द्विलक्षप्रमितापूर्वं कृतेराप्तवान् ( ? ) ॥ २८ ॥ श्राद्धानामतिभक्तिलम्भितसमुल्लासाग्रहादान्तराद् रागाच्चाऽतुलपार्श्वमूर्त्तिविषयादाकर्षितोऽसौ मुनिः । अर्हद्धर्मसुसज्जसम्प्रतिनृपादेशोपजातानघा
Jain Education International
नल्पार्हत्प्रतिमालयं पुरवरं तं स्तम्भतीर्थं ययौ ॥ २९ ॥ तत्पार्श्वं समलञ्चकार मतिमान्नानन्दनामा मुनिबुद्ध्या सागरगच्छमच्छमतनोद् यो बालभावेऽप्यरम् । उद्वाह्याऽपि सुसुन्दरीं कुलभवां यः कामवामो ललौ दीक्षामात्मविनोदिनीं मुनिवराच्छ्रीमज्झवेराभिधात् ॥ ३० ॥ तस्मिन्नागमबोधसद्मनि मुनौ प्रह्वे समुत्तरां न्यायस्याऽध्ययने सुतत्त्वमननैकान्तावबद्धस्पृहे । योग्यत्वावगतेर्निसर्ग करुणाम्भोधिः स नेमिः परं
प्रेमाकल्पितकं ततान मुनिराड् वीतस्पृहाग्र्योऽपि सन् ॥ ३१ ॥ श्रीमालान्वयप्रेमचन्द्रतनुजः सङ्घावतंसोऽवधेर्धर्मोद्योतकृदग्रणीरमरचन्द्राख्योऽभवत् तत्पुरे । नित्यं योऽतुलभक्तिभावितमनाः कृत्वा प्रभातक्रियां श्रीचिन्तामणिपार्श्वनाथप्रतिमां दृष्ट्वा ननामाऽऽर्हतः ॥ ३२ ॥ योsवन्दिष्ट मुनीन् स्वधर्मनिरतान्नित्यं प्रसन्नाशयो यः साधून् प्रतिलाभ्य भक्ति भरतोऽभुक्ताऽवशिष्टं सदा । व्याख्यानं मुनिराजनेमिविजयस्योद्गच्छदच्छान्वयं श्रुत्वाऽऽनन्दनिमग्न आदरभरैः सोऽपूजयत् तं मुनिम् ॥ ३३ ॥ पञ्चाऽप्यस्य वणिग्वरस्य तनयाः धर्मैकलीना बभुस्तेष्वप्यग्रतनूद्भवोऽमितगुणः श्रीपोपटाख्योऽभवत् । भक्तः सोऽतितरां बभूव विदुषो नेमेर्गुणाकर्षितः सङ्घस्तम्भनिभः सुधार्मिक जनप्रोत्साहनैकान्तभूः ॥ ३४ ॥
शासनसम्राड्- विशेष:
४५
For Private & Personal Use Only
www.jainelibrary.org