________________
उपकृतिपरा जैने सङ्घ समुन्नतिकारिणी विविधविषयान् मन्त्रान् सम्यग् विधातुमपि क्षमा । समितिरनघा योग्ये कालेऽथ तत्त्वविवेचिका सुमतिजनतोल्लासा तस्योल्ल्लास कृपार्थिनी ॥ २१ ॥ कृपणजनता यस्यां नैवाऽऽससाद निजस्थितिं सुकृतविषयो यस्याः सर्वात्मनाऽभवदाग्रहः । अहमहमिका यस्यां कृत्ये स्वतो जनमात्रगा परिचयमिता केषां सैषा न मोदविधायिनी ? ॥ २२ ॥ तदधिकभयान्नव्याः पत्रप्रवृत्तिपरायणाः
Jain Education International
सुकृतविमुखं लेख्यं निन्द्यं जहुर्नवशिक्षिताः । मुनिजनवृथानिन्दावाचालताऽपि कुभाग्यजा प्रतिहतपदा तस्याः प्राज्योदये भयतोऽभवत् ॥ २३ ॥ इति दृढतरा जैन श्रद्धाप्रतिष्ठजनैः सभा मुनिवरशुभादेशोद्युक्तै रराज प्रवर्त्तिता । सुकृतनिचयोद्भूत्या सङ्घोपकृत्यतिलालसैः सुमतिमहितैर्लभ्या श्राद्धैः प्रवेश्यतया च सा ॥ २४ ॥ अथ सुकृतिनां संस्था याऽऽनन्दजीति भुवि श्रुता चरमघटना यस्याः कल्याणजीत्युपशब्दिता । अमितवसुता यस्याः सिद्धाचलादिषु यात्रिभि - वितरणबलात् सप्तक्षेत्र्यां क्रमेण विनिर्मिता ॥ २५ ॥ उपकृतिविधिः सङ्गे यस्याः प्रबन्धबलाद् वरः कुनयजनिताशाताद् रक्षा च तीर्थचये वरा । उपचितधनैः स्थाने स्थाने सुजीर्णसमुद्धतिप्रभृतिरभवद् ग्रामे ग्रामे सुकृत्यचयो यतः ॥ २६ ॥ तदुचितघटास्थित्यै पञ्चाऽपि धर्मधुरन्धरा नृपनगरगा ये सन्नीतिप्रपञ्चविशारदाः ।
जिनमतरतानल्पश्राद्धैकमत्यसमादिता वरकुलभवाः सङ्घस्येष्टाः सदोदयशालिनः ॥ २७ ॥
शासनसम्राड्-विशेषः
५५
For Private & Personal Use Only
www.jainelibrary.org