SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ यदि मुनिरयं नाऽस्मिन् वर्षे पुरेऽत्र समागतः कथमपि भवेत् तत् किं जीवेद् दरिद्रगणोऽभितः । पशुगणमृतिर्भक्ष्याभावात् तदा किमु किञ्च नो इति पुरि जनाः सर्वे प्रोचुर्मुनेर्गुणरञ्जिताः ॥ १४ ॥ ग्रहगणफलं नेमेर्दृष्ट्या पुरे ननु तत्र नो जनितमिति नो ज्योतिःशास्त्रं बुधा विविदुर्मूषा । अवगतमतो नेमेर्जन्माक्षरेऽप्यथा सन्निधौ न च जनिभृतां दुःखं भावीति तथ्यफलं ह्यदः ॥ १५ ॥ गुणगणमयं नेमिं श्राद्धाः गुणग्रहलालसाः स्वत उपययुर्भक्त्या तस्मात् सुमत्रमभीप्सवः । उपकृतिवरस्तेभ्यः शिक्षां ददौ मुनिरर्थितो नवनवविधां यस्या धर्मोन्नतिः सम्भूत् परा ॥ १६ ॥ मुनिममुमतिप्रौढं प्राप्याऽर्थतत्त्वविचक्षणं नवमतरता नित्यानन्दादयोऽपि जहुर्मदम् । सुमितविषया विद्या येषां पराजयभीरवो न च मुनिममुं तेऽज्ञाः द्रष्टुं सभास्थमपि क्षमाः ॥ १७ ॥ विषयविमुखा वृत्तिर्याऽभून्मुनेश्नपायिनी भवविलसितं ज्ञात्वा सैकाऽप्यलौकिकताऽन्वया । गुरुचरणगा भक्तिर्याऽन्या धियाऽमितयाऽन्विता किमु नहि तया लोके सेव्योऽभवद् विबुधैरपि ॥ १८ ॥ जिनमतरुचिस्थैर्यात् सूत्रावलम्बिप्ररूपणात् पमतकथाकन्थादुःस्थार्थवादनिवारणात् । मुनिरयमभूत् सर्वैस्तस्मिन् पुरे गुणलालसैर्जिनवचनगैः श्राद्धैः पूज्यो विवेकविचक्षणैः ॥ १९ ॥ नवजनमनःशापुञ्ज तदिष्टप्रकारतो मुनिरमितधीमिश्छिन्दन् चिरन्तनमार्गगः । जिनमतरताँश्चक्रे नव्यान् स्वसन्निधिमागतान् निरुपधिकूपापारावारो निरस्तछलक्रियः ॥ २० ॥ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy