________________
अथ सप्तमः सर्गः
(हरिणी च्छन्दः) अवतु भवतो भव्यान् वीरो निसर्गप्रभाकरो व्यपगतरिपुवातो द्वन्द्वप्रवृत्त्यविलोकितः । सुरपतिमुखैरन्यैः पूज्यैः समर्चितविग्रहो मितिनयमिलद्वाणीक्रोडीकृतार्थततिस्थितिः ॥ १ ॥ मुनिगणपतिं नेमिं श्राद्धा गुणौघविराजितं तमतिशयितं साध्वाचारैरनल्पमुनीश्वरम् । अमितसुकृतैः प्राप्तं भक्त्याउप्रवेशयदादरात् पुरवरमिति ख्यातं तैस्तैः कलाकुशलैर्नरैः ॥ २ ॥ मनसुख इति ख्यातः श्रेष्ठी तदागमहर्षितः प्रतिदिनमतिश्रद्धाप्रह्वस्तदन्तिकमाययौ । विविधविषयां व्याख्यां काले तदास्यविनिर्गतां श्रुतमनुगतां श्रुत्वाऽत्यर्थं तुतोष तदन्तिके ॥ ३ ॥ प्रगुणितमतस्तस्य श्रद्धा मुनौ गुरुभावतो हृदि नियमिताऽमान्ती लोके फलेग्रहिराबभौ । गुरुरपि मुनिनेमिः प्रेम्णा दृशा तमनन्यया सुकृतनिरतं श्राद्धं भक्तं ददर्श गुणाकरम् ॥ ४ ॥ अगणितवसुवातं धर्मे विलोक्य दिदेश तं शिशुगणहितां विद्याशालां विधातुमकल्मषाम् । व्यवहृतिविधेः शिक्षा धर्मावबोधपुरस्कृता तत इति विदन् नेमिः शिक्षाप्रचारकृतादर: ॥ ५ ॥ स च मनसुखभ्राता श्रेष्ठी तदुक्ति प्रणोदितो नियतनियमे विद्याशाले द्रुतं समकारयत् । जिनमतरतान् विद्यादक्षान् सुशिक्षणपण्डितान् नियतसमयान् तत्स्थांश्चक्रे प्रकल्पितवेतनान् ॥६॥
५२
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org