SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ छात्राः सर्वेऽपि तत्राऽध्ययनकृतिपरा आययुरतेन साकं वृन्दं चाऽध्यापकानां तदनुगतिपरं स्तम्भतीर्थाज्जगाम । इत्थं तत्रापि छात्राध्ययनमनुदिनं तत्समीपे त्वपूर्वं साहाय्यादन्त्यचन्द्रामरतनुजमणे: पोपटस्याऽभवच्च ॥ ७० ॥ श्राद्धाः सर्वेऽपि तत्स्था गुणगणनिलये तत्र विद्याम्बुराशावाजन्मब्रह्मनिष्ठे मितहितवचने किं बभूवुर्न नम्राः । माहात्म्यं तत्तदीयं निजपरिचयतोऽशेषमेवाऽऽत्मभक्तं स्तोके नाऽपीष्टसारोद्ग्रथितसुवचसा यच्चकारेष्टमिष्टम् ॥७१ ॥ जीवानां रक्षणार्थं मुनिगणमुकुटः पिञ्जरापोलनाम्ना ख्यातं चाऽस्थापयत् सोऽभितजनहितकृद्भ्रातृभिः पोपटाद्यैः । एतत्स्वाभाव्यमस्याऽपरकृतमभवत् स्वप्रचारातिपूते ग्रामे किञ्चित्त्ववश्यं सकलहितर कार्यमार्योपदेशैः ॥ ७२ ॥ तस्मादत्यन्तभक्त्या मुनिरमितदयः प्रार्थ्यमानोऽपि कामं श्राद्धैः स्थातुं स नेमिन्नु पुरवतो निर्जगामैव विज्ञः । यस्मानैतादृशानां स्थितिरमितफला धर्मवृद्धिप्रवीणा । दृष्टा केनाऽपि लोके फलप्रभवमूते दीर्घकाला निसर्गात् ॥ ७३ ॥ नव्या नव्यां स धीमान् पुरि पुरि विहरन् देशनां तत्त्वदृब्धां भव्यवाताय दत्त्वा निरुपमघटनाभाजितां भावपूर्णाम् । नेमिस्तं राजपूर्वं नगरमनुययौ षट्शराऽन्दुवर्षे (१९५६) भक्त्या श्राद्धैरनल्पैरगणितविभवैः प्रार्थमानस्तदीयैः ॥ ७४ ॥ इति षष्ठः सर्गः ॥ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy