SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Jain Education International श्रीनेमिर्मुनिराट् सुखाब्धिमुनिना स्वभ्यासमासेदुषा सूत्रार्थं सुविचार्य सूत्तरमदाद् ग्रन्थात्मना निर्मितिम् । मीमांसेत्यभिधानमुत्तरवरे सोऽस्थापयद् धीधनो ह्यन्वर्थं परिहारपूर्वक मतिप्रौढोक्ति सम्भूषिते ॥ ६३ ॥ ग्रन्थे तत्र यदुक्तिगुम्फनमतिस्फीतं सुगद्याञ्चितं युक्तिव्रातविभूषितं परगताज्ञानप्रकाशोल्बणम् । तन्मात्रादपि तस्य किं न कृतिनः पाण्डित्यमत्युज्ज्वलं शैल्या लक्षितमान्तरं कृतिविदाऽभिज्ञेन नूनं स्वतः ॥ ६४ ॥ सर्वप्राणिषु सर्वदा त्रिकरणैर्हिंसानिवृत्तिर्व्रतं येषां प्राणिदयैकलीनमनसां मुख्यं श्रुते गीयते । तेषां श्रीजिनपद्धती विचरतां मत्स्यादिमांसाशनं सम्भाव्येत कथं सुसूत्रितमिति स्पष्टीकृतं तूत्तरे ॥ ६५ ॥ औषध्यन्तरवाचिका ननु पुनर्मत्स्येतिसञ्ज्ञा श्रुता सूत्रे लिङ्गविपर्ययस्तु बहुधा किं प्राकृते नो मतः । टीकायां ननु बाह्यभोगपरता स्पष्टं भुजेर्दर्शिता । तद्धर्मन्जयकोब्युदीरितमसत् तत्रेति निष्टङ्कितम् ॥ ६६ ॥ ग्रन्थं मुद्रितमागतं स्वनिकटे सद्गद्यपद्यान्वितं तं हर्मनुजयको ब्यवाचयदतिप्रेम्णा स्वपक्षोत्तरम् । बुद्ध्वा जैनरहस्यमिच्छितपदे तस्मादनर्थालयं स्वाज्ञानं स जहाँ तदादि तमपि द्रष्टुं समुत्कोऽभवत् ॥ ६७ ॥ इत्थं धर्मधुरन्धरो मुनिवरः स्वाभ्यासकालेऽपि यत् धर्मौन्नत्यविधौ बभूव नितरां तत्तत्क्रियादीक्षितः । तेनोत्सूत्रनिरूपणैक निरता अज्ञानदग्धा जनाः नो सान्निध्यमवापुरस्य भयतो दुष्कर्मसञ्चोदिताः ॥ ६८ ॥ चातुर्मास्यमकण्टकं मुनिवर: सम्पूर्य तस्मिन् पुरे सोत्साहैः पुरुषोत्तमप्रभृतिभिर्भक्त्या भृशं सेवितः । साधोर्धर्ममवेक्ष्य चाऽऽग्रहततिं तेषां समाधाय तान् श्राद्धान् सम्प्रतिबोध्य तैरनुगताध्वो पेटलादं ययौ ॥ ६९ ॥ ५० For Private & Personal Use Only शासनसम्राड्-विशेष: www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy