SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ यः सिद्धान्तरहस्यबोधविकलोऽभूत् पायचन्द्राभिधो नव्यं मार्गमकल्पयज्जिनमतेऽगीतार्थतालिङ्गितः । तत्पुष्टिप्रवणः कदाग्रहपरोऽभूद् भ्रातृचन्द्राभिधः सङ्ग्रोत्क्रान्तजनानुरञ्जितपदो वामप्रवृत्तिः सताम् ॥ ५६ ॥ शास्त्रार्थाय तमाजुहाव मुनिराट् नेमिः स तस्मिन् पुरे तन्मिथ्यात्वविधूननं सुजनतामध्ये विधातुं कृती । विद्यादृष्टिबहिष्कृतः समयतः शास्त्रार्थमार्गातिगो लेख्यैरेव तु मुद्रितैः प्रलपितान् प्राकट्यमानीतवान् ॥ ५७ ॥ तत्राऽप्येनमसौ मुनिः सुकुशलः तैस्तैस्तु लेख्यैर्वरैः युक्तिव्रातसमन्वितैः समकरोद्दुः श्लोकभाक्त्वं जने । एवं धर्मविवृद्धये मुनिवरो नित्योद्यतोऽप्यन्वहं व्याख्यानं च ददन् न जात्वपि जहाँ स्वाध्यायमभ्यासयुक् ॥ ५८ ॥ तत्र स्तम्भनपार्श्वनाथप्रतिमा याऽलौकिकी विश्रुता तस्याः साङ्गविधेः प्रतिष्ठितिमसौ नेमिर्मुहूर्ते वरे । श्राद्धेनाऽमरचन्द्रसङ्ख्पतिना यां कारयामास तां साक्षाद् दर्शनतोऽप्यलौकिकविधां व्यावर्णितुं कः क्षमः ? ॥ ५९ ॥ तां द्रष्टुं बहवोऽमिलन् पुरवरे श्राद्धास्तदामन्त्रिताः श्रीमन्नेमिमुनीश्वरोक्तिविहितां साङ्गां शुभैकावहाम् । शांतिनात्रमभूत् प्रशंसिततरं त्वष्टाह्निकाद्युत्सवव्रातभ्राजितमङ्गलैकनिलयं सङ्ग्रामितानन्ददम् ॥ ६० ॥ यो हर्मनुजयको ब्युपाह्वविदितो गीर्वाणभाषाचणः ख्यातश्चाऽऽङ्गलपण्डितेषु सततं शास्त्रव्रजालोचकः । अज्ञानात् प्रकटीचकार किल सोऽप्येवं जिनस्याऽऽगमे मत्स्यादेरशनं सुसूत्रितमतो निर्दुष्टमेतन्ननु ॥ ६१ ॥ तरिमन्नाऽऽङ्गलविद्यया परिगते पाश्चात्यदेशोद्भवे ज्ञानं दर्शनतत्त्वगं कथमपि प्राप्तं स्वतोऽभ्यासतः । पाण्डित्यं परमं प्रकारनवकान् कुज्ञानदग्धान् जडानासाद्याऽऽदरणीयवाक्त्वमसमं मा बोधयेदित्यतः ॥ ६२ ॥ शासनसम्राड्-विशेष: Jain Education International ४९ For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy