SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 8 प्रगाढा भक्तिर्वर्तते तदैन्यवशात् तद्विकलाङ्गतावशादेव । इतोऽधिकं न कोऽपि वेद। 9 आन्तरः कोऽपि हेतुरावां व्यतिषजतीति न कोऽपि ज्ञातवान् ! मम भवनस्य नामाऽस्ति - पुरुषोत्तमभवनमिति । परन्तु भवननामकरणरहस्यमपि रहस्यमेव वर्तते । द्वित्रैः सुहृद्भिः पृष्टमपि - भोः कथं न महेश्वरभवनमित्येव B समुट्टङ्कितम् । यथा पुरुषोत्तमो विष्णुस्तथैव महेश्वरोऽपि देवाधिदेवः शम्भुः । मयोक्तं नर्मणा - किं न जानाति भवान् यन्महेश्वरोऽपि महान् वैष्णव एव ? शिवस्य ॐ विष्णुभक्तिस्तु प्रसिद्धा । तातपादप्रदत्ताधिकारेणैव मया तदौर्बदैहिकं सर्वमपि कृत्यं सम्पादितम् । तातपादनिदेशं शिरसि धृत्वैव च मया न तदपकारिणः पापिष्ठा दुर्जना अन्विष्टा दण्डिता वा । तातपादस्य सर्वमपि धनं मया, पुरुषोत्तमन्यासं संस्थाप्य, तदीयकोष एव संरक्षितम् । नगरनिगमाधिकारिणामनुमतिमवाप्य तातपादस्य कुटीरस्थाने पुरुषोत्तममन्दिरं, कोषागारमार्गेऽपि च वटवृक्षतले कामपि प्रपां निर्मातुमिच्छामि । दमा ककककककककककककककककbhhoon सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् ।। आमोदो नहि कस्तूर्याः शपथेन विभाव्यते ॥॥ ११८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy