SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ताभ्यां सार्द्धमनन्ययोजितमनाः शास्त्रेषु लीनोऽभव छ्रीनेमिर्मुनिराडकुण्ठधिषणस्त्यक्तप्रमादः सदा । पूर्वाध्यापकमादिशद् दिनकर व्याकृत्यनन्योपमं छात्राध्यापनकर्मणा स्वनिकटे संयोजयन् पण्डितम् ॥ ४२ ॥ आनन्दाम्बुधिमप्यमन्दधिषणं मुक्तावलीमात्मसात् कर्तुं सोऽध्ययने दिदेश समयस्याऽऽलोचने चाऽन्वहम् । शिष्यं श्रीसुमतिं त्वपाठदयं चारित्रचूडामणिं व्याख्यानं प्रतिवासरं सुनियते काले ददौ चोज्ज्वलम् ॥ ४३ ॥ इत्थं सोऽब्धिशराचन्द्रप्रमितं (१९५४) संवत्सरं तत्पुरे चातुर्मास्यसुखप्रपूर्तिसुभगं निन्ये त्वतीतास्पदम् । नव्यं बाणशराचन्द्रप्रमिते (१९५५) संवत्सरे श्रेष्ठिनं कूत्वा सङ्घपतिं चचाल मुनिराट् सिद्धाचलं सङ्घयुक् ॥ ४४ ॥ सङ्कः सोऽतितरां बभौ च मुनिना प्रज्ञावताडलङ्कृतः तेनाऽऽनन्दयुजा तथा प्रमुदितेनेशेन विद्योतितः । यात्रालालसमानसैरप्रमितैर्वृद्धिं परां गाहितो मार्गायातपुरेषु मोदकमुखैर्वात्सल्यतोऽभूद् युतः ॥ ४५ ॥ आयातं निकषा पुरं मुनिवरं तं सङ्घविभ्राजितं श्राद्धास्तत्पुरवासिनः समुदिता आनचुरत्यादरात् । आमव्याखिलसङ्घमेव सपतिं स्वस्वप्रभूत्या मुहुत्सिल्यं विदधुः परस्परसमुत्कर्षस्ततः कोऽप्यभूत् ॥ ४६ ॥ यं यं ग्राममगादख्खण्डयशसा साकं मुनीशेन तत् सोऽनल्पवसुव्ययेन विधिना पत्या समुद्दीपितः । सर्वस्मिन् ननु तत्र कीर्तिरनघा धर्मप्रवृत्त्योज्वला जीर्णोद्धारमुखाग्र्यकृत्यनिचयारम्भाद् दिदीपे तदा ॥ ४७ ॥ साकं सोऽमरचन्द्रसङ्घपतिना तत्पुत्रपौत्रादियुक् सङ्घः सिद्धगिरिं जगाम मुनिना तेनातिभूमिं गतः । तत्राउनल्पवसुव्ययो न गणितः साधर्मिकाद्यर्चने तेनाऽकृत्रिमभक्तिभूषितहृदा सङ्घाधिपेनाऽभितः ॥ ४८ ॥ शासनसम्राड्-विशेषः ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy