SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ व्यवहृतिपदं नाम्ना नैवाऽन्तरेण यतस्ततो नवमुनिमसौ नेमिद्धति प्रधानपदं व्यधात् । विजयचरमं तं तु स्पष्टीकृतार्थविशेषकं गुणगणसमृद्ध्यादेरन्वर्थतास्पदमाबभौ ॥ ३५ ॥ अपरमुपमातीतं बालं गुणैक निकेतनं सुकृतनिचयावासं लास्यं प्रतापनिधेर्वरम् । अभिनवपदं वाण्या देव्याः सुभाव्यमखण्डितादतनुतपसो नेमिः शिष्यं चकार यशोऽभिधम् ॥ ३६ ॥ द्विजदिनकरादेतौ नव्यौ मुनी विमलद्युती पपठतुरतिप्रौढौ तस्याऽऽज्ञया च मुनीशितुः । सुगुरुकृपया तौ द्वौ नित्योद्यतौ पठनेऽचिरात् समियतुरतिप्रौढिं शब्दप्रयोगप्रतिष्ठितौ ॥ ३७ ॥ पुनरपि मुनिर्नेमिः सङ्ग्राग्रहात् पुरमाययौ सुकृतनिचयैस्तेषां कृष्टो नुतं कलितप्रथम् । अथ मनसुखभ्राता चिन्तामणेः स प्रतिष्ठितिं 'मुनिवरसमादेशाच्चक्रे समुत्सवपूर्वकम् ॥ ३८ ॥ गुरुवरममुं श्रेष्ठी धीमान् विचार्य विचक्षणं पुरि मनसुखभ्राता तस्यां स योगतपस्ततिम् । गुणमणिनिधिं गम्भीराख्यं सुकारयितुं गणि समयनिपुणं प्रार्थ्योल्लासात् समानयति स्म तम् ॥ ३९ ॥ ससुमतिसुखाम्भोधिं नेमिं सुधर्मप्रवर्त्तकं विमलधिषणप्रेमप्रोद्यत्तपश्चयसम्भृतम् । विदितसमयो योगग्रामैक सेवनकर्मठो Jain Education International विहितसमये योगारम्भं त्वकारयदेष सः ॥ ४० ॥ उदयति मतिर्नव्या भव्यप्रवृत्तिविधायिनी कलयति फलां यस्माच्चित्तप्रवृत्तिनिरोधिनीम् । अनुभवति शं स्वात्मा भिन्नं यतो मुनिरार्हतः स विधिलसितो योगस्तेषां सुमन्त्रचितोऽभवत् ॥ ४१ ॥ शासनसम्राड् - विशेष: ५७ For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy