________________
द्वादशकक्षां प्रथमश्रेण्यां समुत्तीर्य शिक्षाग्रहणार्थं प्रयागमागत आसम् । ग्रामटिकामृत्तिकायां समुत्पन्नस्तावता कालेन इलाहाबादनगरमपि सम्यक्तया न ज्ञातवान् । । परन्तु ममैव ग्रामस्य निवासी श्रीपालः प्रयागनगरे रिक्शायानं चालयति स्म । अन्त्यजकुलोत्पन्नोऽसौ मया सहैव पञ्चमी कक्षां यावत् शिक्षामग्रहीत् । पश्चादसौ . गृहदैन्यवशात् पठितुं नाऽशकत् । परन्तु सहाध्ययनकाले मयि नितरामसौ स्निग्ध *
आसीत् । ततश्चाऽसौ कुटुम्बपोषणार्थं किञ्चिदर्जितुं निजावुत्तेन सार्धमिलाहाबाद- नगरमुपागमत् । विगतसप्तवर्षेभ्योऽसौ तत्रैवाऽऽसीत् ।
यदाऽसौ मां प्रथमश्रेण्यामुत्तीर्णं श्रुतवान् तदा स्वहर्षं प्रकटयितुं मामपश्यत् । चिरकालानन्तरमावयोः सङ्गमो जातः । स कदाचिदेव ग्राममागच्छति स्म । o आगतोऽप्यसौ प्रायेण स्ववसतावेव निरुद्ध आसीत् । यावदहं तमागतं शृणोमि, तं
च मिलितुं निश्चिनोमि तावदसौ प्रयागं प्रतिष्ठितोऽश्रूयत । विचित्रैवाऽऽसीदावयोः । स्थितिः ।
परन्तु सम्प्रत्यावां सम्मुखीनौ जातौ । स मां महतोत्साहेन हर्षेण च BF वर्धापितवान् । भूयोऽप्यवदत् ।
- बन्धो ! ग्रामेऽस्मिन् रत्नकल्पोऽसि । कुलं ग्रामः क्षेत्रं जनपदः सर्वेऽपि भवता *
सदर्थिताः । भवत्सहपाठित्वेनाऽहमपि धन्यो जातः । मातृपितृसुखवञ्चितोऽपि समाजैकशरणो भवान् यथा शिक्षां गृहीतवान् तन्निदर्शनभूतमन्येषां कृते ।
सम्प्रति क्व पठितुमभिलषति भवान् ? - श्रीपाल ! पार्श्ववर्तिनि महाविद्यालय एव गन्तुमिच्छामि ! - बदलापुरस्थे प्रतापगञ्जस्थे वा ? श्रीपालोऽपृच्छत् । - यत्र कुत्रापि सरलतयाऽर्थसाहाय्यमुपलभ्येत । सर्वमेव जानाति भवान् ।
भोजनस्याऽपि सम्यक् प्रबन्धो न वर्तते । अत एव नगरस्थे विद्यालये क्वचिद् गन्तुं क्व मे शक्तिः ? मया भणितम् । - भ्रातः ! स्वर्णकुद्दालो दर्शनाय भवति न पुनर्धरित्रीखननाय । यद्यल्पशिक्षितोऽहम् । इलाहाबादनगरमुपगन्तुं समर्थोऽभूवं तहि कथं न भवान् तत्रस्थे विश्वविश्रुतविश्वविद्यालये शिक्षां गृहीतुं समर्थः ? सोऽपि मयि तत्र विद्यमाने ? - श्रीपाल ! बन्धो ! तव स्नेह एवं भाषते । जानामि भवदीयं हृदयम् । तथाऽपि
१०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org