________________
श्रीविजयनेम्यभ्युदयमहाकाव्यम् भूमिका
विजयशीलचन्द्रसूरिः । __ जैनधर्मः परिपूर्णः प्रकृतिरक्षापरायणो धर्मः । जिन-दैवता जना जैनाः । जिनश्च र
राग-द्वेष-मोहजेता यः कश्चिदपि भवति सः । अहिंसा अस्य धर्मस्य मौल: सिद्धान्तः । तो नैकोऽपि जीवो हन्तव्य: उपद्रोतव्यः; मनसाऽपि न, वाचाऽपि न, कायेनाऽपि न, ॐ MAA इत्येतत्तस्य हार्दम् । 'सर्वेऽपि जीवा जीवितुमिच्छन्ति, न मर्तुम्', अतो यत्र चेतना ( 'विद्यते, तस्य रक्षा करणीया, हिंसा नैव कर्तव्या- इति जैनानां मतम् ।
जैनसिद्धान्तः पृथिव्यां, जले, अग्नौ, वायौ, वनस्पतिषु चाऽपि चैतन्यस्य सत्तां स्वीकरोति । अतो न तेषां तत्त्वानामकारणमुपयोगः, तदर्थं तेषां वधश्च करणीयत्वेन ते स्वीकुर्वते । प्रकृतिश्च एभिरेव पदार्थैर्व्याप्तेति जगत्प्रसिद्धम् । अत एषां जीवानां यदा रक्षा क्रियते, तदा स्वयमेव पृथ्वी-पर्वत-मृत्तिकादीनां धातूनां च, नदी-समुद्रादिरूपाणां जलाशयानां, वनस्पतिसमूहस्य वृक्षादीनां वनानां चैतदाश्रितानां जलचर-नभश्चरस्थलचरादिजीवसृष्टेश्च रक्षणं स्यादेव । फलत: प्रकृतेः पर्यावरणस्य च रक्षया जगतः सौस्थ्यं स्वत एव वर्तते सर्वदा ।।
जैनवर्गेण यदा जीवदया स्वीकृता उपदिष्टा च, तदा तेन प्रकतेः सन्तुलनमपि परोक्षरूपेण स्वीकृतमेव । अत एव कथ्यते-जैनधर्मः सम्पूर्णतया प्रकृतिरक्षको धर्मः, अत एव विश्वधर्मत्वपदार्पणयोग्योऽपि सः ।। __एतादृशधर्मस्य साम्प्रतीनः प्रवर्तकः श्रमणो भगवान् महावीरः । तेनोपज्ञो मार्गोऽयं तदीयसुशिष्यपरम्परयाऽद्यावधि निराबाधं प्रवर्तितः । 'हिंसा, परपीडनं चाऽधर्मः, अहिंसा, दया, करुणा चैव धर्मः' इत्यात्मकोऽयं जिनमार्गोऽद्यापि विश्वे पोस्फुरीति, इत्यत्र विषये जैनगुरुपरम्पराया एव पुरुषार्थः । यदि संसारत्यागि-वैराग्यरसिक-गुरुपरम्परा न स्यात्, तदा जगति सम्प्रति अहिंसामार्गस्य गन्धोऽपि नैव स्यात् ।
एतस्यां परम्परायां श्रीसुधर्मस्वामिभगवत आरभ्य सङ्ख्यातीता गुरवः-आचार्याः श्रमणाश्च सञ्जाताः, यैर्मार्गनिर्वाहो मार्गाविच्छेदश्च नितरां विहितः । एतस्यामेव धर्मपरम्परायां विंशतितमे शतके समजनि जैनाचार्यः श्रीविजयनेमिसूरीश्वरः । जैनशासन-साम्राज्ये स
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org