SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ (३) व्याहरामो वयं स्वागतं स्वागतम् !! अस्मदीये कुटीरे भवानागतो व्याहरामो वयं स्वागतं स्वागतम् । हे महामान्य ! पूजार्ह ! वन्द्यातिथे ! कुर्महे ते वयं स्वागतं स्वागतम् ॥ १ ॥ शैलतुल्या क्च ते सद्गुणोत्तुङ्गता क्वाऽस्मदीयं लघुत्वं शिशुत्वाञ्चितम् । प्रीतिपूतैर्वचोभिस्तथापि प्रभो ! व्याहरामो वयं स्वागतं स्वागतम् ॥ २ ॥ नाऽस्ति पाद्यं न वायूँ न वा विष्टरं नापि नैवेद्यजातं किमप्यालये । भक्तिभावैरसीमैस्तथाऽपि प्रभो ! व्याहरामो वयं स्वागतं स्वागतम् ॥ ३ ॥ दीप्तभानुं यथा पङ्कजानां वनी श्लाघते पूर्णचन्द्रं त्रियामा यथा । पक्षिणश्चाऽभिनन्दन्ति कुजं यथा व्याहरामस्तथा तावकं स्वागतम् ॥ ४ ॥ त्वं समर्थप्रभुर्हन्त भक्ता वयम् वन्दनीयो भवान् वन्दनार्ता वयम् । आवयोरस्ति सम्बन्ध एषोऽनघो व्याहरामस्ततः स्वागतं स्वागतम् ॥ ५ ॥ ८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy