Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 90 यन्नाह विशेषा० वग्गहादओ' इत्यादिना प्रतिपादितैरवग्रहादिसंबन्धिभिरष्टाविंशतिभेदैः किलासंगृहीतत्वाद् व्यञ्जनावग्रहचतुष्टयापगमं कृत्वाऽश्रुतनिश्रित बद्धिचतष्यं मतान्तरवादिभिः प्रक्षिप्यते एतच्चाऽयुक्तम् , यतः 'सोइंदियाइभेएण' इत्यादिनाऽवग्रहादीनामेवाऽष्टाविंशतिर्भेदाः मोक्ताः अवग्रहादयश्च बुद्धिचतुष्टयेऽपि सन्ति, अतोऽवग्रहादिभणनद्वारेण तदप्यथुतनिश्रितं बुद्धिचतुष्टयमेतेष्वष्टाविंशतिभेदेष संग्रहीत. इति किमिति तैः पुनरपि प्रक्षिप्यते ॥ इति गाथार्थः ॥ ३०३ ॥ तत्रैतत् स्यात् मष्टव्यं परस्य- 'कथमौत्पत्तिक्यादिबुद्धिचतुष्टयेऽवग्रहादयः संभवन्ति ? । तदत्र यथा ते भवन्ति, तथा दर्शकिह पडिकुक्कुडहीणो जुझे बिंबेण वग्गहो, ईहा । किं सुसिलिट्ठमवाओ दप्पणसंकंतबिंब ति ॥ ३० ॥ इह किर्लोऽऽगमे भैरह-सिल-मिढे-कुक्कुड-तिल-वालुय-हत्थि-अगड-वणसंडे । पायस-अइआ-पत्ते खाडहिला पश्च पियरो य" ॥१॥ याटिनोत्पत्तिक्यादिबदीनां बहन्यदाहरणान्युक्तानि, तन्मध्याच्छेषोपलक्षणार्थ कर्कटोदाहरणमाश्रिन्यौपत्तियां भाव्यन्ते-राज्ञा नटकुमारकस्य भरतस्य किल बुद्धिपरीक्षणार्थमादिष्टं यदुत- अयं मदीयकुर्कुटो द्वितीयकुकुंटमन्तरेणैकैक एव योधनीयः। ततस्तेन जिज्ञासितं मनसि कथमयं प्रतिकुकुंटहीनःप्रतिपक्षभूतद्वितीयकुकुंटवर्जितो युध्येत । एतच जिज्ञासमानस्य तस्य अगित्येव स्फरित चेतसि । किम् ?, इत्याह-बिम्बेनेति आत्मीयेन प्रतिबिम्बेन पुरो वीक्षितेन दध्मातत्वादयं युध्यत इत्यवगृहीतमित्यर्थः। एतच्च किम्?, इत्याह- अवग्रहसामान्य नव बिम्बमात्रावग्रहणादवग्रहो मतिप्रथमभेद इत्यर्थः । ईहा तर्हि का, इत्याह- 'ईहा किं ससिलिदामिति प्रनस्तत प्रतिबिम्बमस्य योधनाय सुश्लिष्टं सुष्टु युज्यमानकं भवेत्- किं तडागपयःपूरादिगतम्, आहोखिद् दर्पणगतम, इत्यादि. विम्बविशेषान्वेषणमीहेत्यर्थः। अपायमुपदर्शयति- 'अदाओ दप्पणसंकंतबिंब ति' कल्लोलादिभिः प्रतिक्षणमपनीयमानत्वात, अस्पष्टत्वा चजलादिगतबिम्बमिह न युक्तम् । ततः स्थिरत्वेन, स्पष्टादित्वेन च चरणाऽऽघातादिविषयत्वाद् दर्पणसंक्रान्तमेव तदत्र युज्यते. इत्येवं बिम्बविशेषनिश्चयोऽपाय इत्यर्थः। एवमन्येष्वपि बुद्ध्युदाहरणेष्ववग्रहादयो भावनीयाः। तस्माद् बुद्धिचतुष्टयेऽप्येषां सद्भावाच्छत १गाथा ३००। २ कथं प्रतिकुर्कुटहीनो युध्येत बिम्बेनाऽवग्रहः, ईहा । किं सुश्लिष्टमपायो दर्पणसंक्रान्तबिम्बामिति ॥ ३० ॥३घ. 'कह'। ४ श्रीनन्दीसने। ५ भरत-शिला-मे-कुर्कुट-तिल-वालुका-हस्ति-अवट-वनखण्डानि । पायसा-ऽऽगमन-पत्राणि तरुमर्कटिका ('खीसकोली' इति भाषायाम्) पञ्च पितरश्च ॥३॥६. 'ति' निश्रितमतिज्ञानसंबन्धिष्ववग्रहादिगताऽष्टाविंशतिभेदेष्ववग्रहादिसाम्येन. बुद्धिचतुष्टयस्याऽन्तर्भावो भावनीयः । ततो न युक्तं व्या नावग्रहचतुष्टयाऽपगमेन पुनर्बुद्धिचतुष्टयप्रक्षेपणम्, इति स्थितम् ॥ इति गाथार्थः ॥ ३०४॥ आह-ननु यद्यवग्रहादिसाम्येनाऽश्रुतनिश्रितं श्रुतनिश्रिताऽवग्रहादिष्वन्तर्भवति, तर्हि "आभिणिबोहियनाणं दुविहं पत्र, जहा- सुयनिस्सियं, अस्सुयनिस्सियं च" इत्येवमोगमे यः श्रुतनिश्रितादश्रुतनिश्रितस्य भेद उक्तः, स विशीर्यत एव, इत्याशक्याह जह उग्गहाइसामण्णउ वि सोइंदियाइणा भेओ । तह उग्गहाइसामण्णओ वि तमणिस्सिया भिन्नं ॥३०॥ यथेहाऽवग्रहादीनामवग्रहादिसामान्ये सत्यपि, अवग्रहादित्वे तुल्येऽपि सतीत्यर्थः। किम् ?, इत्याह- श्रोत्रेन्द्रियादिना भेदः, तथाहि एके श्रोत्रेन्द्रियसंबन्धिनोऽवग्रहादयः, यावदन्ये स्पर्शनेन्द्रियसंबन्धिनः, अपरे तु मनःसंबन्धिनः; तथा तेनैव प्रकारेणावग्रहादिसामान सत्यपि तदश्रुतनिश्रितं भिन्न, 'श्रुतनिश्रितात्' इति शेषः। कस्माद्धेतोर्भिन्नम् , इत्याह- 'अणिस्सिय त्ति' भावप्रधानोऽयं निर्देश अनिश्रितत्वात-श्रुतानिश्रितत्वादित्यर्थः। एतदुक्तं भवति- अष्टाविंशतिभेदविचारप्रक्रमेऽवग्रहादिमत्वं सामान्यं धर्ममाश्रित्याऽश्रुत श्रितस्य श्रुतनिश्रित एवाऽन्तर्भावो विवक्ष्यते, श्रुता-ऽश्रुतनिश्रितविचारप्रस्तावे त्वश्रुतनिश्रितत्वं विशिष्टं धर्ममुररीकृत्य श्रुत निश्रितादश्रुतनिश्रितं पृथगेवेष्यते, इत्यागमोक्तस्तयोर्भेदोऽपि न किश्चिद् विशीर्यते । न च वक्तव्यम्- कथमेकस्यैवैकस्मादेव भेदश्चा दश्च, विरोधात् ? इति यतो यदि तेनैव धर्मेण भेदः, अभेदश्वेष्येत, स्यात् तदा विरोधः, धर्मान्तरनिवन्धनौ तु भेदा-ऽभेदौ न विरुष्ट ते । किं हि नाम तद् वस्त्वस्ति, यस्य वस्त्वन्तराद् भेदा-ऽभेदौ न स्तः । । घटादयोऽपि हि घटादित्वसामान्येन परस्परमभेदिनोऽ खद्रव्य-क्षेत्र-कालादिमत्त्वेन भिन्ना इति । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् , अनेकान्तजयपताकादिषु विस्त णोक्तत्वाच ॥ इति गाथार्थः ॥ ३०५॥ स्यादेतत् , किमेतावता कष्टेन ?, मदीयव्याख्यापक्ष एव सुखावहः, श्रुता-ऽश्रुतनिश्रितयोरभेदापत्तेरभावात् , समस्तमतिज्ञा भेदभणनाचेति । तदेतदयुक्तम् , सिद्धान्ताभिप्रायबहिर्भूतत्वात् । एतदेवोपसंहारपूर्वकमाह अट्ठावीसइभेयं सुयनिस्सियमेव केवलं तम्हा । जम्हा तम्मि समत्ते पुणरस्सुयनिस्सियं भूणियं ॥ ३०६ ॥ १५. 'सामाम्येन' २ आभिनिबोधिकज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथा-श्रुतनिश्रितम् , अश्रुतनिश्रितं च । ३ श्रीनन्दीसूत्रे। - यथाऽवग्रहादिसामान्यतोऽपि श्रोत्रेन्द्रियादिना भेदः । तथाऽवग्रहादिसामान्यतोऽपि तदनश्रिता(तत्वा) भिन्नम् ॥३०५॥ ५ घ.छ.ज.'तद्यथा'। (क.ग. 'श्रुतनिश्रिता'। . भष्टाविंशतिभेदं श्रुतनिश्रितमेव केवलं तस्मात् । यस्मात् तस्मिन् समाप्ते पुनरभुतनिशितं भणितम् ॥३.६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339